कौषीतकिब्राह्मण · अध्याय 23.4
पशवः.पञ्चमम्.अहः.पङ्क्तिर्.वै ।
तन्.न्व्.अस्य.निदानम् ।
पशवः.पङ्क्तिर्.इति । (सोम: पृष्ठ्य.सदह)
तस्य.एतानि.छन्दो.रूपाणि ।
वृषभवद्.धेनुमद्.दुग्धवद्.घृतवन्.मद्वद्.रयिमद्.वाजवद्.अध्यासवद्.इति । (सोम: पृष्ठ्य.सदह)
इमम्.ऊ.षु.वो.अतिथिम्.उषर्.बुधम्.इत्य्.आज्यम् ।
रायः.सूनो.सहसो.मर्त्येष्व्.एति.राय.इति.रयिमत् । (सोम: पृष्ठ्य.सदह)
रयिमद्.इति.वा.अस्य.रूपम् ।
अध्यासवत्.तत्.पङ्क्ते.रूपम् ।
जागतम्.जगत्.प्रातः.सवनो.ह्य्.एष.त्र्यहः ।
इति.नु.व्यूढे । (सोम: पृष्ठ्य.सदह)
उद्धृत्य.एतद्.अग्निम्.तम्.मन्ये.यो.वसुर्.इति.समूढे.पाङ्क्तम् । (सोम: पृष्ठ्य.सदह)
पङ्क्तिर्.वै.पञ्चमम्.अहः ।
यद्.एतद्.अहस्.तद्.एताः । (पृष्ठ्य.सदह)
अस्तम्.यम्.यन्ति.धेनव.इति ।
धेनुमद्.इति.वा.अस्य.रूपम् ।
बार्हतः.प्रौगः । (सोम: पृष्ठ्य.सदह)
पशवः.पञ्चमम्.अहः ।
बार्हताः.पशवः.पशूनाम्.एव.आप्त्यै ।
यत्.पाञ्चजन्यया.विश.इति.मरुत्वतीयस्य.प्रतिपत् । (सोम: पृष्ठ्य.सदह)
पाञ्चजन्यया.इत्.तत्.पञ्चमस्य.अह्नो.रूपम् ।
इत्था.हि.सोम.इन्.मद.इति.मद्वत्.पाङ्क्तम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
अवितासि.सुन्वतो.वृक्त.बर्हिष.इति.षट्.पदाः ।
षड्.वा.ऋतवः.संवत्सरः । (सोम: पृष्ठ्य.सदह)
संवत्सरस्य.एव.आप्त्यै ।
तासाम्.गायत्री.शंसम्.शस्त्रम्.इति.ह.स्म.आह.कौषीतकिः । (सोम: पृष्ठ्य.सदह)
तद्.वा.अत्र.समृद्धम्.यद्.गायत्री.शंसम् ।
तद्.यद्.अष्टाभिर्.अष्टाभिर्.अक्षरैः.प्रणौति । (सोम: पृष्ठ्य.सदह)
तद्.गायत्र्यै.रूपम् ।
मरुत्वान्.इन्द्र.वृषभो.रणाय.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
वृषभो.रणाय.इति.वृषभवत् ।
तद्.एतस्य.अह्नो.रूपम् ।
अयम्.ह.येन.वा.इदम्.इति.मरुत्वतीयम्.गायत्र । (सोम: पृष्ठ्य.सदह)
गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0