भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 23.3

23.3.1

हिरण्य.पाणिम्.ऊतय.इत्य्.ऊतिमान्.अनुचरस्.तस्य.उक्तम्.ब्राह्मणम् ।

23.3.2

ऊतय.इत्य्.ऊतिमत् । (सोम: पृष्ठ्य.सदह)

23.3.3

ऊतिमद्.इति.वा.अस्य.रूपम् ।

23.3.4

आ.देवो.यातु.सविता.सुरत्नः.प्र.द्यावा.यज्ञैः.पृथिवी.नमोभिः.प्र.ऋभुभ्यो.दूतम्.इव.वाचम्.इष्ये.प्र.शुक्र.एतु.देवी.मनीषा.इति । (सोम: पृष्ठ्य.सदह)

23.3.5

आ.इति.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् ।

23.3.6

तस्माद्.आवन्ति.च.प्रवन्ति.च.चतुर्थे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । (सोम: पृष्ठ्य.सदह)

23.3.7

पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः ।

23.3.8

द्विपदाः.शस्यन्ते ।

23.3.9

द्विपाद्.वा.अभिक्रमितुम्.अर्हति । (सोम: पृष्ठ्य.सदह)

23.3.10

अभिक्रान्त्यै.तद्.रूपम् ।

23.3.11

तद्.यथा.उपरयाय.स्वर्गस्य.लोकस्य.नेदीयस्तायाम्.वसेद्.एवम्.तत् । (सोम: पृष्ठ्य.सदह)

23.3.12

प्र.संराजो.असुरस्य.प्रशस्तिम्.इति.वैश्वानरीयम् ।

23.3.13

संराज.इति.संराड्वत् । (सोम: पृष्ठ्य.सदह)

23.3.14

संराड्वद्.इति.वा.अस्य.रूपम् ।

23.3.15

क.ईम्.व्यक्ता.नरः.सनीडा.इति.मारुतम् ।

23.3.16

तस्य.तद्.ब्राह्मणम्.यत्.प्रशुक्रीयस्य । (सोम: पृष्ठ्य.सदह)

23.3.17

प्र.यन्तु.वाजास्.तविषीभिर्.अग्नय.इति.तिस्रो.अधिकाः.समूढे ।

23.3.18

आ.त्व्.एषम्.उग्रम्.अव.ईमहे.वयम्.इति । (सोम: पृष्ठ्य.सदह)

23.3.19

आ.इति.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् ।

23.3.20

तस्माद्.आवन्ति.च.प्रवन्ति.च.चतुर्थे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । (सोम: पृष्ठ्य.सदह)

23.3.21

पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः ।

23.3.22

हुवे.वः.सुद्योत्मानम्.सुवृक्तिम्.इति.जातवेदसीयम् । (सोम: पृष्ठ्य.सदह)

23.3.23

तस्य.तद्.ब्राह्मणम्.यन्.मरुत्वतीयस्य ।

23.3.24

वसुम्.न.चित्र.महसम्.गृणीष.इति.समूढे ।

23.3.25

घृत.निर्णिग्.ब्रह्मणे.गातुम्.एरय.इति । (सोम: पृष्ठ्य.सदह)

23.3.26

आ.इति.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् ।

23.3.27

तस्माद्.आवन्ति.च.प्रवन्ति.च.चतुर्थे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण । (सोम: पृष्ठ्य.सदह)

23.3.28

पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः ।

23.3.29

अथ.उक्थ्यान्य्.उपेत्य.सृप्त्वा.षोडशिनम्.उपयन्ति ।

23.3.30

षोडश.कलम्.वा.इदम्.सर्वम् । (सोम: पृष्ठ्य.सदह)

23.3.31

अस्य.एव.सर्वस्य.आप्त्यै ।

23.3.32

अन्नम्.चतुर्थेन.अह्ना.आप्नुवन्ति । (सोम: पृष्ठ्य.सदह)

23.3.33

अनुष्टुभम्.छन्द.एकविंशम्.स्तोमम्.वैराजम्.साम ।

23.3.34

उदीचीम्.दिशम्.शरदम्.ऋतूनाम् ।

23.3.35

साध्यांश्.च.आप्त्यांश्.च.देवान्.देव.जाते । (सोम: पृष्ठ्य.सदह)

23.3.36

बृहस्पतिम्.च.चन्द्रमसम्.च.अधिपती । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc