कौषीतकिब्राह्मण · अध्याय 23.2
तम्.त्वा.यज्ञेभिर्.ईमह.इति.यज्ञवत्या.मरुत्वतीयम्.प्रतिपद्यते ।
पुनर्.आरम्भ्यो.वै.चतुर्थे.अहन्.यज्ञः ।
यज्ञम्.एव.तद्.आरभते । (सोम: पृष्ठ्य.सदह)
श्रुधी.हवम्.इन्द्र.मा.रिषण्य.इति.मरुत्वतीयम् ।
ता.वा.एतास्.त्रिष्टुभो.विराड्.वर्णाः । (सोम: पृष्ठ्य.सदह)
ता.अत्र.क्रियन्ते ।
एता.ह्य्.अह्नो.रूपेण.सम्पन्नाः ।
इन्द्र.मरुत्व.इह.पाहि.सोमम्.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम् । (सोम: पृष्ठ्य.सदह)
त्रैष्टुभो.वा.इन्द्रः ।
मध्यंदिन.आयतनो.वा.इन्द्रः ।
तानि.वा.एतानि.विज्ञात.त्रैष्टुभानि.सवन.धरणान्य्.अपि.व्यूढच्.छन्दसो.मध्यंदिनान्.न.च्यवन्ते । (सोम: पृष्ठ्य.सदह)
त्रैष्टुभ.इन्द्रः ।
न.इद्.इन्द्रम्.स्वाद्.आयतनाच्.च्यवयाम.इति ।
जातम्.यत्.त्वा.परि.देवा.अभूषन्न्.इति.जातवत् । (सोम: पृष्ठ्य.सदह)
जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् ।
इमम्.नु.मायिनम्.हुव.इति.मरुत्वतीयम्.गायत्रम् । (सोम: पृष्ठ्य.सदह)
गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः ।
अथ.अत.इह.न्यूङ्खयेद्.इह.इति । (सोम: पृष्ठ्य.सदह)
स्तोत्रिय.अनुरूपयोश्.च.एव.उक्थ.मुखीययोश्.च.न्यूङ्खः ।
अथ.न.आद्रियेत । (सोम: पृष्ठ्य.सदह)
आत्मा.वै.स्तोत्रियः.प्रजा.अनुरूपः ।
अन्नम्.न्यूङ्खः ।
अन्नम्.एव.तद्.आत्मनि.च.प्रजानाम्.च.दधाति । (सोम: पृष्ठ्य.सदह)
आनुष्टुभम्.न्यूङ्खम्.न्यूङ्खयेद्.इति.ह.एक.आहुः ।
आनुष्टुभम्.वै.चतुर्थम्.अहः । (सोम: पृष्ठ्य.सदह)
तद्.एतत्.स्वेन.छन्दसा.समर्धयति ।
वैराजम्.न्यूङ्खम्.न्यूङ्खयेद्.इति.सा.स्थितिः । (सोम: पृष्ठ्य.सदह)
अन्नम्.विराड्.अन्नम्.न्यूङ्खः ।
अन्नम्.एव.तद्.यज्ञे.च.यजमानेषु.च.दधाति । (सोम: पृष्ठ्य.सदह)
मध्यमे.पदे.न्यूङ्खयेत् ।
आत्मा.वै.पूर्वम्.पदम्.प्रजा.उत्तमम् । (सोम: पृष्ठ्य.सदह)
मध्यम्.मध्यम्.पदम् ।
मध्ये.वा.इदम्.आत्मनो.अन्नम्.धीयते ।
तद्.यथा.अभिग्रासम्.अन्नम्.अद्याद्.एवम्.तत् । (सोम: पृष्ठ्य.सदह)
इन्द्रम्.इद्.देवतातय.इत्य्.अष्ट.इन्द्रः.प्रगाथः ।
एतेन.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत ।
तथो.एव.एतद्.यजमाना.एतेन.एव.सर्वा.अष्टीर्.अश्नुवते । (सोम: पृष्ठ्य.सदह)
कुह.श्रुत.इति.कुह.श्रुतीयाः ।
ता.वै.विराजो.अनुष्टुभो.वा.भवन्ति ।
ता.अत्र.क्रियन्ते । (सोम: पृष्ठ्य.सदह)
एता.ह्य्.अह्नो.रूपेण.सम्पन्नाः ।
युध्मस्य.ते.वृषभस्य.स्व.राज.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
स्व.राज.इति.स्व.राड्वत् ।
स्व.राड्वद्.इति.वा.अस्य.रूपम् ।
त्यम्.उ.वः.सत्रासाहम्.इति.निष्केवल्यम् । (सोम: पृष्ठ्य.सदह)
आ.च्यावयस्य्.ऊतय.इत्य्.ऊतिमत् ।
ऊतिमद्.इति.वा.अस्य.रूपम् ।
गायत्रम्.गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0