भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 23.1

23.1.1

अन्तस्.तृतीयम्.अहः ।

23.1.2

ते.देवा.अन्तम्.गत्वा.चतुर्थम्.अहर्.ऐच्छन् ।

23.1.3

तस्माद्.इच्छद्वत् । (सोम: पृष्ठ्य.सदह)

23.1.4

तद्.इष्ट्वा.अविन्दन् ।

23.1.5

तस्माद्.वित्तवत् ।

23.1.6

तद्.आहुर्.यद्.अन्तस्.तृतीयम्.अहर्.अथ.कस्माच्.चतुर्थे.अहन्.न्यूङ्खयति.इति । (सोम: पृष्ठ्य.सदह)

23.1.7

वाच.एव.तद्.आयतनम्.विराजो.यच्.चतुर्थम्.अहः ।

23.1.10

अन्नम्.विराड्.अन्नम्.वाक् ।

23.1.11

ताम्.एव.एतच्.चतुर्थे.अहन्.विभावयति । (सोम: पृष्ठ्य.सदह)

23.1.12

यथा.अयस्.तप्तम्.विनयेद्.एवम्.तत् ।

23.1.13

वाचो.विभूत्यै ।

23.1.14

तस्य.एतानि.छन्दो.रूपाणि । (सोम: पृष्ठ्य.सदह)

23.1.15

संराड्वद्.विराड्वत्.स्वराड्वज्.जातवद्.ऊतिमद्.वीतिमत्.परिवद्.अभिवद्.उपवद्.इति । (सोम: पृष्ठ्य.सदह)

23.1.16

आग्निम्.न.स्व.वृक्तिभिर्.इति.वैमदम्.आज्यम् ।

23.1.17

विमदेन.वै.देवा.असुरान्.व्यमदन् ।

23.1.18

तद्.यच्.चतुर्थे.अहन्.विमदः.शस्यते.मध्यतश्.च.होत्रासु.च ।

23.1.19

अङ्गाद्.अङ्गाद्.एव.तद्.यजमानाः.पाप्मानम्.विमदन्ति ।

23.1.20

अग्निर्.जातो.अथर्वणा.इति.जातवत् । (सोम: पृष्ठ्य.सदह) आग्निम्(पृष्ठ्य.सदह)

23.1.21

तद्.एतस्य.अह्नो.रूपम् ।

23.1.22

ताः.संशस्ता.दश.जगत्यः.सम्पद्यन्ते ।

23.1.23

जगत्.प्रातः.सवनो.ह्य्.एष.त्र्यहः ।

23.1.24

विंशतिर्.गायत्रीः ।

23.1.25

गायत्री.प्रातः.सवनम्.वहति । (सोम: पृष्ठ्य.सदह)

23.1.26

तद्.उ.ह.प्रातः.सवन.रूपान्.न.अपैति ।

23.1.27

इति.नु.व्यूढे ।

23.1.28

उद्धृत्य.एतद्.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इति.समूढे.वैराजम्.आज्यम् । (सोम: पृष्ठ्य.सदह)

23.1.29

वैराजम्.पृष्ठम्.तत्.सलोम ।

23.1.30

वासिष्ठम्.आज्यम् ।

23.1.31

वासिष्ठम्.पृष्ठम्.तत्.सलोम ।

23.1.32

हस्त.च्युती.जनयन्त.प्रशस्तम्.इति.जातवत् । (सोम: पृष्ठ्य.सदह)

23.1.33

तद्.एतस्य.अह्नो.रूपम् ।

23.1.34

आनुष्टुभः.प्रौगः ।

23.1.35

आनुष्टुभम्.वै.चतुर्थम्.अहः ।

23.1.36

तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc