कौषीतकिब्राह्मण · अध्याय 22.6
अभि.त्वा.देव.सवितर्.इत्य्.अभिवान्.अनुचरः ।
पृष्ठानाम्.एव.नानात्वाय ।
तद्.आहुर्.यद्.अन्तस्.तृतीयम्.अहर्.अथ.कस्माद्.अभिवान्.अनुचर.इति । (सोम: पृष्ठ्य.सदह)
एतेन.वा.अह्ना.देवाः.स्वर्गंल्.लोकम्.आयन् ।
अभिप्रेप्सन्तो.वै.तद्.आयन् । (सोम: पृष्ठ्य.सदह)
तस्माद्.इति.ब्रूयात् ।
उद्.उ.ष्य.देवः.सविता.हिरण्यया.घृतवती.भुवनानाम्.अभिश्रिया.इति.घृतवती.तयोर्.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
अनश्वो.जातो.अनभीशुर्.उक्थ्य.इत्य्.आर्भवम् ।
रथस्.तिचक्रः.परि.वर्तते.रज.इति । (सोम: पृष्ठ्य.सदह)
त्रिचक्र.इति.तत्.तृतीयस्य.अह्नो.रूपम् ।
परावतो.ये.दिधिषन्त.आप्यम्.इति.वैश्वदेवम् । (सोम: पृष्ठ्य.सदह)
अर्ध.पद.उदर्काण्य्.एकानि ।
अथ.एतत्.तृतीय.पद.उदर्कम् ।
तत्.तृतीयस्य.अह्नो.रूपम् ।
वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम् । (सोम: पृष्ठ्य.सदह)
घृतम्.न.पूतम्.अग्रन्ये.जनाम्.असि.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् ।
धारा.वरा.मरुतो.धृषण्व्.ओजस.इति.मारुतम् । (सोम: पृष्ठ्य.सदह)
धारावरा.इति.निनर्तिः ।
अन्तस्.तृतीयम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत.इयात् । (सोम: पृष्ठ्य.सदह)
त्वम्.अग्ने.प्रथमो.अङ्गिरा.ऋषिर्.इति.जातवेदसीयम् ।
त्वम्.त्वम्.इति.सप्रभृति । (सोम: पृष्ठ्य.सदह)
यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् ।
अमुंल्.लोकम्.तृतीयेन.अह्ना.आप्नुवन्ति । (सोम: पृष्ठ्य.सदह)
जगतीम्.छन्दः.सप्तदशम्.स्तोमम्.वैरूपम्.साम ।
प्रतीचीम्.दिशम्.वर्षा.ऋतूनाम् । (सोम: पृष्ठ्य.सदह)
आदित्यान्.देवान्.देव.जातम् ।
वरुणम्.अधिपतिम्.वरुणम्.अधिपतिम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0