भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 22.5

22.5.1

तृतीयम्.अहर्.असाव्.एव.लोक.आयतनेन ।

22.5.2

वरुणो.जगती.सप्तदश.स्तोमो.वैरूपम्.साम ।

22.5.3

तन्.न्व्.अस्य.निदानम् ।

22.5.4

तस्य.एतानि.छन्दो.रूपाणि । (सोम: पृष्ठ्य.सदह)

22.5.5

चकृवद्.उत्तमे.पदे.सद्.एवम् ।

22.5.6

यद्.वै.भूत.अनुवादि.तच्.चकृवत् । (सोम: पृष्ठ्य.सदह)

22.5.7

अश्वावद्.गोमद्.रथवद्.गतवत्.स्थितवद्.अन्तवत्.सोदर्कम्.अनिरुक्तम्.सप्रभृति.इति । (सोम: पृष्ठ्य.सदह)

22.5.8

युक्ष्वा.हि.देव.हूतमान्.इत्य्.आज्यम् ।

22.5.9

तद्.आहुर्.यद्.अन्तस्.तृतीयम्.अहर्.अथ.कस्माद्.युक्तवद्.आज्यम्.इति । (सोम: पृष्ठ्य.सदह)

22.5.10

एतेन.वा.अह्ना.देवाः.स्वर्गंल्.लोकम्.आयन् ।

22.5.11

युक्ता.वै.तद्.आयन् । (सोम: पृष्ठ्य.सदह)

22.5.12

तस्माद्.इति.ब्रूयात् ।

22.5.13

अश्वान्.अग्ने.रथीरि.इव.इति.रतह्वत् ।

22.5.14

तद्.एतस्य.अह्नो.रूपम् । (सोम: पृष्ठ्य.सदह)

22.5.15

गायत्रम्.गायत्र.प्रातः.सवनो.ह्य्.एष.त्र्यहः ।

22.5.16

इति.नु.व्यूढे ।

22.5.17

उद्धृत्य.एतत्.त्वम्.अग्ने.वसूंर्.इह.इति.समूढे.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)

22.5.18

औष्णिह.आत्रेयः.प्रौगः ।

22.5.19

जागतम्.वै.तृतीयम्.अहः ।

22.5.20

तद्.यद्.औष्णिह.आत्रेयस्.तृतीयस्य.अह्नः.प्रौगः । (सोम: पृष्ठ्य.सदह)

22.5.21

तत्.प्रातः.सवनम्.जगती.भजते ।

22.5.22

त्र्यर्यमा.मनुषी.देवताताअ.इति.मरुत्वतीयम् । (सोम: पृष्ठ्य.सदह)

22.5.23

त्रि.इति.तत्.तृतीयस्य.अह्नो.रूपम् ।

22.5.24

यद्.द्वाय.इन्द्र.ते.शतम्.इति.वैरूपस्य.स्तोत्रियः ।

22.5.25

शतम्.भूमीर्.उत.स्युर्.इति.निनर्तिः । (सोम: पृष्ठ्य.सदह)

22.5.26

अन्तस्.तृतीयम्.अहः ।

22.5.32

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

22.5.33

कद्र्यन्.हि.तत.इयात् ।

22.5.34

इन्द्र.त्रि.धातु.शरणम्.इति.त्रिवान्.प्रगाथः । (सोम: पृष्ठ्य.सदह)

22.5.35

त्रि.धात्व्.इति.तत्.तृतीयस्य.अह्नो.रूपम् ।

22.5.36

अहम्.भुवम्.वसुनः.पूर्व्यस्.पतिर्.इति.इन्द्र.सूक्तम् । (सोम: पृष्ठ्य.सदह)

22.5.37

अहम्.अहम्.इति.सप्रभृति ।

22.5.38

यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम्.जागतम् । (सोम: पृष्ठ्य.सदह)

22.5.39

जागतम्.वै.तृतीयम्.अहः ।

22.5.40

तद्.एनत्.स्वेन.छन्दसा.समर्धयति ।

22.5.41

यो.जात.एव.प्रथमो.मनस्वान्.इत्य्.एतस्मिंस्.त्रैष्टुभे.निविदम्.दधाति ।

22.5.42

तद्.एतद्.इन्द्र.तनू.सूक्तम् । (सोम: पृष्ठ्य.सदह)

22.5.43

एतस्मिन्.ह.गृत्समदो.बाभ्रवो.निविदम्.दधद्.इन्द्रस्य.प्रियम्.धाम.उपजगाम । (सोम: पृष्ठ्य.सदह)

22.5.44

उप.ह.वा.इन्द्रस्य.प्रियम्.धाम.गच्छति.जयति.परम्.लोकम्.य.एतस्मिन्त्.सूक्ते.निविदम्.दधाति । (सोम: पृष्ठ्य.सदह)

22.5.45

तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवादि.यो.दासम्.वर्णम्.अधरम्.गुहाकरि.इति ।

22.5.46

यद्.एतद्.भूतम्.इव.अभि । (सोम: पृष्ठ्य.सदह)

22.5.47

सोदर्कम्.भवति.तद्.द्वितीयम्.अन्त.रूपम् । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc