कौषीतकिब्राह्मण · अध्याय 22.4
तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् ।
त्रिर्.अन्तरिक्षम्.सविता.महित्वना.इति ।
तत्.प्रत्यक्षम्.अन्तरिक्षम्.अभिवदति ।
तद्.एतस्य.अह्नो.रूपम् । (सोम: पृष्ठ्य.सदह)
ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम्.विवत्.तस्य.उक्तम्.ब्राह्मणम् ।
तक्षन्.रथम्.सुवृतम्.विद्मना.अपस.इत्य्.आर्भवम् । (सोम: पृष्ठ्य.सदह)
तक्षन्.हरी.इन्द्र.वाहा.वृषण्वसू.इति.वृषण्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
यज्ञस्य.वो.रथ्यम्.विश्पतिम्.विशाम्.इति.शार्यातम्.वैश्वदेवम् ।
वृषा.केतुर्.यजतो.द्याम्.अशायत.इति.वृषण्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
पृष्कस्य.वृष्णो.वृष्णे.शर्धाय.इति.वृषण्वती.तयोर्.उक्तम्.ब्राह्मणम् ।
नू.चित्.सहोता.अमृतो.नि.तुन्दत.इति.जातवेदसीयम् । (सोम: पृष्ठ्य.सदह)
होता.यद्.दूतो.अभवद्.विवस्वत.इति.विवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
तस्य.प्रातर्.मक्षू.धियावसुर्.जगम्याद्.इत्य्.उत्तमा ।
परम्.एव.एतद्.अहर्.अभिवदति । (सोम: पृष्ठ्य.सदह)
परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः ।
अन्तरिक्ष.लोकम्.द्वितीयेन.अह्ना.आप्नुवन्ति ।
त्रिष्टुभम्.छन्दः.पञ्चदशम्.स्तोमम्.बृहत्.साम । (सोम: पृष्ठ्य.सदह)
दक्षिणाम्.दिशम्.ग्रीष्मम्.ऋतूनाम् ।
रुद्रान्.देवान्.देव.जातम्.इन्द्रम्.अधिपतिम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0