कौषीतकिब्राह्मण · अध्याय 22.3
द्वितीयम्.अहर्.अन्तरिक्ष.लोक.आयतनेन ।
इन्द्रस्.त्रिष्टुप्.पञ्चदशः.स्तोम ।
तन्.न्व्.अस्य.निदानम् ।
तस्य.एतानि.छन्दो.रूपाणि ।
कुर्वन्.मध्ये.पदे.सदेवम् ।
यद्.वै.प्रत्यक्षम्.आस्प्रक्षंस्.तत्.कुर्वत् । (सोम: पृष्ठ्य.सदह)
हतवद्.वज्रवद्.वृत्रहवद्.वृषण्वद्.उद्वद्.विवत्.स्थितम्.तन्वाम्.इति । (सोम: पृष्ठ्य.सदह)
अग्निम्.दूतम्.वृणीमह.इत्य्.आज्यम् ।
होतारम्.विश्ववेदसम्.इति.विवत्.तस्य.उक्तम्.ब्राह्मणम् ।
गायत्रम्.गायत्र.प्रातः.सवनो.ह्य्.एष.त्र्यहः । (सोम: पृष्ठ्य.सदह)
इति.नु.व्यूढे ।
उद्धृत्य.एतत्.त्वम्.हि.क्षैतवद्.यश.इति.समूढे.तस्य.उक्तम्.ब्राह्मणम् ।
आर्त्समदः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
तद्.एतस्य.अह्नो.रूपम् ।
या.त.ऊतिर्.अवमा.या.परमा.इति.निष्केवल्यम् । (सोम: पृष्ठ्य.सदह)
ताभिर्.ऊ.षु.वृत्रहत्ये.अवीर्.न.इति.वृत्रहवत् ।
तद्.एतस्य.अह्नो.रूपम् । (सोम: पृष्ठ्य.सदह)
विश्वो.देवस्य.नेतुर्.आ.विश्व.देवम्.सत्पतिम्.इति.प्रतिपद्.अनुचरौ.तयोर्.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0