कौषीतकिब्राह्मण · अध्याय 22.2
युञ्जते.मन.उत.युज्ञते.धियः.प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृधा.इह.इह.वो.मनसा.बन्धुता.नर.इत्य्.आर्भवम् ।
तेन.नियच्छति । (सोम: पृष्ठ्य.सदह)
युक्तवन्ति.च.वै.प्रवन्ति.च.प्रथमे.अहन्त्.सूक्तानि.शस्यन्ते ।
तद्.यद्.इह.इह.व.इत्य्.आर्भवम्.करोति । (सोम: पृष्ठ्य.सदह)
तन्.नियत्या.अप्रच्युत्यै.रूपम् ।
हयो.न.विद्वान्.अयुजि.स्वयम्.धुरि.इति.वैश्वदेवम्.युक्तवत् ।
युक्तवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: पृष्ठ्य.सदह)
तस्य.द्वे.उत्तमे.उत्सृजति ।
कुविद्.एते.अवधृते.आग्निमारुते.शस्येते.इति । (सोम: पृष्ठ्य.सदह)
तद्.उ.ह.स्म.आह.कौषीतकिः ।
शंसेद्.एव.सूक्तस्य.अव्यवच्छेदाय.इति ।
न.ह.वा.ऋक्.शस्त्रेण.यात.यामा.भवति ।
न.अनुवचनेन । (सोम: पृष्ठ्य.सदह)
वषट्.कारेण.ह.वै.सा.यात.यामा.भवति.समाने.अहन् ।
वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् । (पृष्ठ्य.सदह)
तस्मिन्त्.सुम्नानि.यजमान.आ.चक.इत्य्.आवत् ।
आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: पृष्ठ्य.सदह)
प्र.शर्धाय.मारुताय.स्व.भानव.इति.मारुतम्.प्रवत् । (सोम: पृष्ठ्य.सदह)
प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् ।
प्र.तव्यसीम्.नव्यसीम्.धीतिम्.अग्नय.इति.जातवेदसीयम्.प्रवत् ।
प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: पृष्ठ्य.सदह)
इमंल्.लोकम्.प्रथमेन.अह्ना.आप्नुवन्ति ।
गायत्रीम्.छन्दस्.त्रिवृतम्.स्तोमम्.रथन्तरम्.साम ।
प्राचीम्.दिशम्.वसन्तम्.ऋतूनाम् । (सोम: पृष्ठ्य.सदह)
वसून्.देवान्.देव.जातम्.अग्निम्.अधिपतिम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0