भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 22.1

22.1.1

प्रथमम्.अहर्.अयम्.एव.लोक.आयतनेन ।

22.1.2

अग्निर्.गायत्री.त्रिवृत्.स्तोमो.रथन्तरम्.साम ।

22.1.3

तन्.न्व्.अस्य.निदानम् ।

22.1.4

तस्य.एता.छन्दो.रूपाणि ।

22.1.5

करिष्यन्.प्रथमे.पदे.सद्.एवम् ।

22.1.6

यद्.वै.भविष्यत्.तत्.करिष्यत् । (सोम: पृष्ठ्य.सदह)

22.1.6

यद्.वै.भविष्यत्.तत्.करिष्यत् ।

22.1.7

आवत्.प्रवद्.एषवद्.अर्षवद्.अद्यवद्.युक्तवद्.युञ्जानवज्.ज्योतिष्मद्.इति ।

22.1.8

उपप्रयन्तो.अध्वरम्.इत्य्.आज्यम्.प्रवत् । (सोम: पृष्ठ्य.सदह)

22.1.9

प्रवद्.वै.प्रथमस्य.अह्ने.रूपम् ।

22.1.10

गायत्रम्.गायत्र.प्रातः.सवनो.ह्य्.एष.त्र्यहः ।

22.1.11

इति.नु.व्यूढे । (सोम: पृष्ठ्य.सदह)

22.1.12

उद्धृत्य.एतत्.प्र.वो.देवाय.अग्नय.इति.समूढे.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)

22.1.13

माधुच्छन्दस.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् ।

22.1.14

आ.यात्व्.इन्द्रो.अवस.उप.न.इति.मरुत्वतीयम्.आवत् । (सोम: पृष्ठ्य.सदह)

22.1.15

आवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

22.1.16

स्वर्णराद्.अवसे.नो.मरुत्वान्.इति.स.एव.अस्मिन्.मरुन्.न्यङ्गः । (सोम: पृष्ठ्य.सदह)

22.1.17

आ.न.इन्द्रो.दूराद्.आ.न.आसाद्.इति.निष्केवल्यम्.आवत् ।

22.1.18

आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (पृष्ठ्य.सदह)

22.1.19

सम्पातौ.निष्केवल्य.मरुत्वतीये.भवतः.प्रथमे.अहन् ।

22.1.20

सम्पातैर्.वै.देवाः.स्वर्गंल्.लोकम्.समपतन् । (सोम: पृष्ठ्य.सदह)

22.1.21

तस्माद्.अत्र.प्रथमौ.शस्येते.स्वर्ग्यौ ।

22.1.22

तद्.यत्.सम्पातौ.निष्केवल्य.मरुत्वतीये.भवतः.प्रथमे.अहन् । (सोम: पृष्ठ्य.सदह)

22.1.23

स्वर्गस्य.एव.लोकस्य.समष्ठ्या.इति । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc