भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 21.7

21.7.1

सर्व.जागतानि.ह.वै.तस्य.निविद्धानानि.भवन्ति.तृतीय.सवने ।

21.7.2

तथा.यथा.यथम्.निविदो.धीयन्ते । (सोम: अभिप्लव.सदह)

21.7.3

ता.एनान्.यथा.यथम्.धीयमानाः.सर्वेषु.च.लोकेषु.सर्वेषु.च.कामेषु.यथा.यथम्.दधति । (सोम: अभिप्लव.सदह)

21.7.4

तद्.यत्.सर्व.जागतानि.तस्य.निविद्धानानि.भवन्ति.तृतीय.सवने ।

21.7.5

तेनो.यः.सर्व.जागते.तृतीय.सवने.कामः.स.उपाप्तः । (सोम: अभिप्लव.सदह)

21.7.6

यद्.व्.एव.एतास्.तन्त्र्यास्.त्रिष्टुभ.उक्थ.प्रतिपदो.अहर्.अहः.शस्यन्ते ।

21.7.7

तेनो.यः.सर्व.त्रैष्टुभे.तृतीय.सवने.कामः.स.उपाप्तः । (सोम: अभिप्लव.सदह)

21.7.8

यद्.व्.एव.एषा.तन्त्र्या.गायत्र्य्.अहर्.अहः.सुरूप.कृत्नुः.शस्यते । (सोम: अभिप्लव.सदह)

21.7.9

तेनो.यः.सर्व.गायत्रे.तृतीय.सवने.कामः.स.उपाप्तः ।

21.7.10

यद्.व्.एव.एष.षड्.अहः.पुनः.पुनः.अभिप्लवते । (सोम: अभिप्लव.सदह)

21.7.11

तस्माद्.अभिप्लवो.नाम ।

21.7.12

अभिप्लवन्ते.ह्य्.अनेन.स्वर्गाय.लोकाय.यजमानाः.स्वर्गाय.लोकाय.यजमानाः । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc