भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 21.6

21.6.1

तद्.आहुः.कस्माद्.वैश्वदेवान्य्.एव.अन्वायात्य्.अन्ते.न.एक.देवत्याइ.न.द्वि.देवत्यानि.इति । (सोम: अभिप्लव.सदह)

21.6.2

न.एक.देवत्येन.यात.यामम्.भवति ।

21.6.3

न.द्वि.देवत्येन । (सोम: अभिप्लव.सदह)

21.6.4

वैश्व.देवेन.एव.यात.यामम्.भवति ।

21.6.5

तस्माद्.वैश्वदेवान्य्.एव.अन्वायात्य्.अन्ते । (सोम: अभिप्लव.सदह)

21.6.6

एतेषाम्.एव.अह्नाम्.सबलतायै ।

21.6.7

एतेषाम्.अभिप्लवानाम्.असम.वीर्यताया.इति । (सोम: अभिप्लव.सदह)

21.6.8

ज्योतिः.प्रथमम्.अहर्.उपयन्ति ।

21.6.9

तस्य.एव.एक.अहस्य.रूपेण । (सोम: अभिप्लव.सदह)

21.6.10

अयम्.ह्य्.एकाह.उत्तरेषाम्.अह्नाम्.ज्योतिः ।

21.6.11

गाम्.द्वितीयम् ।

21.6.12

गच्छन्ति.ह्य्.अनेन । (सोम: अभिप्लव.सदह)

21.6.13

आयुस्.तृतीयम् ।

21.6.14

यन्ति.ह्य्.अनेन । (अभिप्लव.सदह)

21.6.15

अग्निष्टोमौ.प्रथम.उत्तमे.अहनी ।

21.6.16

चत्वार्य्.उक्थ्यानि.मध्ये । (सोम: अभिप्लव.सदह)

21.6.17

ब्रह्म.वा.अग्निष्टोमः ।

21.6.18

पशव.उक्थ्यानि । (सोम: अभिप्लव.सदह)

21.6.19

ब्रह्मणा.एव.तत्.पशून्.उभयतः.परिगृह्य.आत्मन्.दधते ।

21.6.20

तेषाम्.वा.एतेषाम्.चतुर्णाम्.उक्थ्यानाम्.सहस्रम्.स्तोत्रियाः । (सोम: अभिप्लव.सदह)

21.6.21

साहस्राः.पशवः ।

21.6.22

प्र.साहस्रम्.पोषम्.आप्नोति.य.एवम्.वेद । (सोम: अभिप्लव.सदह)

21.6.23

पृष्ठ्या.अन्तान्.वा.इतश्.चतुरश्.चतुरो.अभिप्लवान्.उपयन्ति ।

21.6.24

पशवो.वा.अभिप्लवाः.श्रीः.पृष्ठ्यानि । (सोम: अभिप्लव.सदह)

21.6.25

पशुभिर्.एव.तत्.श्रियम्.उभयतः.परिगृह्य.आत्मन्.दधते । (सोम: अभिप्लव.सदह)

21.6.26

पृष्ठ्या.आरम्भणान्.वा.ऊर्ध्वम्.विषुवतश्.चतुरश्.चतुरो.अभिप्लवान्.उपयन्ति ।

21.6.27

पशवो.वा.अभिप्लवाः.श्रीः.पृष्ठ्यानि ।

21.6.28

श्रिया.एव.तत्.पशून्.उभयतः.परिगृह्य.आत्मन्.दधते । (सोम: अभिप्लव.सदह)

21.6.29

क्लृप्तो.वा.अभिप्लवः.क्लृप्तच्.छन्दाः ।

21.6.30

यो.वै.यज्ञ.क्रतुः.क्लृप्तच्.छन्दा.भवति । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc