कौषीतकिब्राह्मण · अध्याय 21.5
तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् ।
दिवो.धर्ता.भुवनस्य.प्रजापतिर्.इति ।
दिव.इति.तद्.अमुष्य.लोकस्य.रूपम् ।
घृतेन.द्यावा.पृथिवी.अभिवृते.इति.द्यावा.पृथिवीयम्.घृतवत् । (सोम: अभिप्लव.सदह)
सर्व.देवत्यम्.वै.घृतम् ।
सर्व.देवत्यम्.षष्ठम्.अहः ।
तस्माद्.घृतवत् । (सोम: अभिप्लव.सदह)
किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् ।
श्रेष्ठो.यविष्ठ.इति.निनर्तिः ।
अन्तः.षष्ठम्.अहः । (सोम: अभिप्लव.सदह)
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत.इयात् ।
अबुध्रम्.उ.त्य.इन्द्रवन्तो.अग्नय.इति.वैश्वदेवम् । (सोम: अभिप्लव.सदह)
तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् ।
वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम् ।
घृतम्.न.पूतम्.अग्नये.जनाम्.असि.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
धारावरा.मरुतो.धृष्ण्व्.ओजस.इति.मारुतम् ।
धारावरा.इति.निनर्तिः ।
अन्तः.षष्ठम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कर्द्यन्.हि.तत.इयात् । (सोम: अभिप्लव.सदह)
त्वम्.अग्ने.द्युभिस्.त्वम्.आशुशुक्षणिर्.इति.जातवेदसीयम् ।
त्वम्.त्वम्.इति.सप्रभृति । (सोम: अभिप्लव.सदह)
यथा.वै.सोदर्कम्.एवम्.सप्रहृत्य्.अन्त.रूपम् ।
अपः.षष्ठेन.अह्ना.आप्नुवन्ति । (सोम: अभिप्लव.सदह)
प्रजापतिम्.देवम्.देवतानाम् ।
तेजो.अधिभूतम्.अमृतम्.आत्मन्.दधते । (सोम: अभिप्लव.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0