भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 21.4

21.4.1

ज्योतिः.षष्ठम्.अहर्.उपयन्ति ।

21.4.2

तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.षष्ठस्य.अह्नः ।

21.4.3

सखायः.सम्.वः.सम्यञ्चम्.इत्य्.आज्यम् । (सोम: अभिप्लव.सदह)

21.4.4

सखाय.इति.सर्व.रूपम् ।

21.4.5

सर्व.रूपम्.वै.षष्ठम्.अहः ।

21.4.6

तस्मात्.सखाय.इति.सर्वान्.एव.अभिवदति । (सोम: अभिप्लव.सदह)

21.4.7

संहार्यः.प्रौगः ।

21.4.8

बृहद्.वै.साम.सृज्यमानम्.संहार्यः.प्रौगो.अन्वसृज्यत । (सोम: अभिप्लव.सदह)

21.4.9

तद्.रूपेण.कर्म.समर्धयति ।

21.4.10

एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । (सोम: अभिप्लव.सदह)

21.4.11

महान्.इन्द्रो.नृवदा.चर्षणिप्रा.इति.मरुत्वतीयम् ।

21.4.12

उरुः.पृथुः.सुकृतः.कर्तृभिर्.भूद्.इति.निनर्तिः । (सोम: अभिप्लव.सदह)

21.4.13

अन्तः.षष्ठम्.अहः ।

21.4.14

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

21.4.15

कद्र्यन्.हि.तत.इयात् । (सोम: अभिप्लव.सदह)

21.4.16

यो.जात.एव.प्रथमो.मनस्वान्.इति.निष्केवल्यम् ।

21.4.17

तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवादि.यो.दासम्.वर्णम्.अधरम्.गुहाकरि.इति । (अभिप्लव.सदह)

21.4.18

यद्.एतद्.भूतम्.इव.अभि ।

21.4.19

सोदर्कम्.भवति.तद्.द्वितीयम्.अन्त.रूपम् । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc