भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 21.3

21.3.1

आयुः.पञ्चमम्.अहर्.उपयन्ति ।

21.3.2

तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.पञ्चमस्य.अह्नः ।

21.3.3

अग्न.ओजिष्ठम्.आ.भर.इत्य्.आज्यम् । (सोम: अभिप्लव.सदह)

21.3.4

प्र.नो.राया.परीणसा.इति.राया.इत्.रयिमत् ।

21.3.5

रयिमद्.इति.वा.अस्य.रूपम् । (सोम: अभिप्लव.सदह)

21.3.6

अध्यासवत्.तत्.पङ्क्ते.रूपम् ।

21.3.7

संहार्यः.प्रौगः ।

21.3.8

रथन्तरम्.वै.साम.सृज्यमानम्.संहार्यः.प्रौगो.अन्वसृज्यत । (सोम: अभिप्लव.सदह)

21.3.9

तद्.रूपेण.कर्म.समर्धयति ।

21.3.10

एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । (सोम: अभिप्लव.सदह)

21.3.11

क्व.स्य.वीरः.को.अपश्यद्.इन्द्रम्.इति.मरुत्वतीयम् ।

21.3.12

यो.राया.वज्री.सुत.सोमम्.इच्छन्न्.इति.रया.इति.रयिमत् । (सोम: अभिप्लव.सदह)

21.3.13

रयिमद्.इति.वा.अस्य.रूपम् ।

21.3.14

एतायाम्.आ.उप.गवुअंत.इन्द्रम्.इति.निष्केवल्यम् । (अभिप्लव.सदह)

21.3.15

गव्यन्त.इति.पशुमत् ।

21.3.16

पशुमद्.इति.वा.अस्य.रूपम् ।

21.3.17

उद्.उ.ष्य.देवः.सविता.हिरण्यया.इति.सावित्रम् । (सोम: अभिप्लव.सदह)

21.3.18

घृतेन.पाणी.अभि.प्रुष्णुते.मख.इति.घृतेन.इति.पशुमत् ।

21.3.19

पशुमद्.इति.वा.अस्य.रूपम् । (सोम: अभिप्लव.सदह)

21.3.20

घृतवती.भुवनानाम्.अभिश्रिया.इति.द्यावा.पृथिवीयम्.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)

21.3.21

ततम्.मे.अपस्.तद्.उ.तायते.पुनर्.इत्य्.आर्भवम् ।

21.3.22

स्रुचा.इव.घृतम्.जुहवाम.विद्मना.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)

21.3.23

कथा.देवानाम्.कतमस्य.यामनी.इति.वैश्वदेवम् ।

21.3.24

सहस्रसा.मेधसाताव्.इव.त्मना.इति.सहस्रसा.इति.पशुमत् । (सोम: अभिप्लव.सदह)

21.3.25

पशुमद्.इति.वा.अस्य.रूपम् ।

21.3.26

पृक्षस्य.वृष्णो.अरुषस्य.नू.सह.इति.वैश्वानरीयम् ।

21.3.27

अपाम्.उपस्थे.महिषा.अगृभ्णत.इति.महिषा.इति.पशुमत् । (सोम: अभिप्लव.सदह)

21.3.28

पशुमद्.इति.वा.अस्य.रूपम् ।

21.3.29

प्रवः.स्पडक्रन्त्.सुविताय.दावन.इति.मारुतम् । (सोम: अभिप्लव.सदह) (स्पडक्रन्त्???)

21.3.30

गवाम्.इव.श्रियसे.शृङ्गम्.उत्तमम्.इति.गवाम्.इव.इति.पशुमत् ।

21.3.31

पशुमद्.इति.वा.अस्य.रूपम् ।

21.3.32

चित्र.इत्.शिशोस्.तरुणस्य.वक्षथ.इति.जातवेदसीयम् ।

21.3.33

वाजिन्तमाय.सह्यसे.सुपित्र्या.इति.वाजिन्न्.इति.पशुमत् । (सोम: अभिप्लव.सदह)

21.3.34

पशुमद्.इति.वा.अस्य.रूपम् ।

21.3.35

अध्यासवत्.तत्.पङ्क्ते.रूपम् । (सोम: अभिप्लव.सदह)

21.3.36

पशून्.पञ्चमेन.अह्ना.आप्नुवन्ति ।

21.3.37

रुद्रम्.देवम्.देवतानाम् ।

21.3.38

यशो.अधिभूतम्.वीर्यम्.आत्मन्.दधते । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc