भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 21.2

21.2.1

तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् ।

21.2.2

अजीजनत्.सविता.सुंरम्.उक्थ्यम्.इति.जातवत् ।

21.2.3

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

21.2.4

ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम् ।

21.2.5

सुजन्मनी.धिषणे.अन्तरीयत.इति.जातवत् । (सोम: अभिप्लव.सदह)

21.2.6

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् ।

21.2.7

अनश्वो.जातो.अनभीशुर्.उक्थ्य.इत्य्.आर्भवम्.जातवत् । (सोम: अभिप्लव.सदह)

21.2.8

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् ।

21.2.9

अग्निर्.इन्द्रो.वरुणो.मित्रो.अर्यमा.इति.वैश्वदेवम् । (सोम: अभिप्लव.सदह)

21.2.10

यज्ञम्.जनित्वी.तन्वी.नि.मामृजुर्.इति.जातवत् ।

21.2.11

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

21.2.12

वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् ।

21.2.13

तस्मिन्त्.सुम्नानि.यजमान.आ.चक.इत्य्.आवत् । (सोम: अभिप्लव.सदह)

21.2.14

आवद्.वै.चतुर्थस्य.अह्नः.प्रायणीय.रूपम् । (सोम: अभिप्लव.सदह)

21.2.15

पुनः.प्रायणीयम्.हि.चतुर्थम्.अहः ।

21.2.16

जात.आपृणो.भुवनानि.रोदसी.इति.जातवत् । (सोम: अभिप्लव.सदह)

21.2.17

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् ।

21.2.18

प्र.ये.शुम्भन्ते.जनयो.न.सप्तय.इति.मारुतम्.जातवत् । (सोम: अभिप्लव.सदह)

21.2.19

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् ।

21.2.20

जनस्य.गोपा.अजनिष्ट.जागृविर्.इति.जातवेदसीयम्.जातवत् । (सोम: अभिप्लव.सदह)

21.2.21

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् ।

21.2.22

अन्नम्.चतुर्थेन.अह्ना.आप्नुवन्ति । (सोम: अभिप्लव.सदह)

21.2.23

चन्द्रमसम्.देवम्.देवतानाम् ।

21.2.24

दिशो.अधिभूतम्.श्रोत्रम्.आत्मन्.दधते । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc