भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 21.1

21.1.1

देवा.वै.मृत्युम्.पाप्मानम्.अपजिघांसमाना.ब्रह्मणः.सलोकताम्.सायुज्यम्.ईप्सन्त.एतम्.अभिप्लवम्.षडहम्.अपश्यन् । (सोम: अभिप्लव.सदह)

21.1.2

त.एतेन.अभिप्लवेन.अभिप्लुत्य.मृत्युम्.पाप्मानम्.अपहत्य.ब्रह्मणः.सलोकताम्.सायुज्यम्.आपुः । (सोम: अभिप्लव.सदह)

21.1.3

तथो.एव.एतद्.यजमाना.एतेन.एव.अभिप्लवेन.अभिप्लुत्य.मृत्युम्.पाप्मानम्.अपहत्य.ब्रह्मणः.सलोकताम्.सायुज्यम्.आप्नुवन्ति । (सोम: अभिप्लव.सदह)

21.1.4

त.एतेन.पूर्वेण.त्र्यहेण.अभिप्लुत्य.गवा.चतुर्थे.अहन्न्.अयतन्त.गमनाय.एव । (सोम: अभिप्लव.सदह)

21.1.5

आप्युः.पञ्चमम्.अहर्.उपायन्त्.सर्व.आयुत्वाय ।

21.1.6

ज्योतिः.षष्ठम्.अहः.पुनः.परस्तात्.पर्यास्यन्.मृत्योर्.एव.पाप्मनो.न.अन्ववायनाय ।

21.1.7

गाम्.चतुर्थम्.अहर्.उपयन्ति । (सोम: अभिप्लव.सदह)

21.1.8

तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.चतुर्थस्य.अह्नः ।

21.1.9

होता.अजनिष्ट.चेतन.इत्य्.आज्यम्.जातवत् ।

21.1.10

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

21.1.11

मैधातिथः.प्रौगः ।

21.1.12

बृहद्.वै.साम.सृज्यमानम्.मैधातिथः.प्रौगो.अन्वसृज्यत । (सोम: अभिप्लव.सदह)

21.1.13

तद्.रूपेण.कर्म.समर्धयति ।

21.1.14

एतद्.वा.आर्ध्निकम्.कर्म.यद्.रूप.समृद्धम् । (सोम: अभिप्लव.सदह)

21.1.15

जनिष्ठा.उग्रः.सहसे.तुराय.इति.मरुत्वतीयम्.जातवद् ।

21.1.16

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

21.1.17

उग्रो.जज्ञे.वीर्याय.स्वधावान्.इति.निष्केवल्यम्.जातवत् । (सोम: अभिप्लव.सदह)

21.1.18

जातवद्.वै.चतुर्थस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc