कौषीतकिब्राह्मण · अध्याय 20.6
उद्.उ.ष्य.देवः.सविता.हिरण्यया.इति.सावित्रम् ।
घृतेन.पाणी.अभि.प्रुष्णुते.मख.इति.घृतवत् । (सोम: अभिप्लव.सदह)
बहु.देवत्यम्.वै.घृतम् ।
बहुदेवत्यम्.तृतीयम्.अहः । (सोम: अभिप्लव.सदह)
तस्माद्.घृतवत् ।
घृतेन.द्यावा.पृथिवी.अभीवृते..इति.द्यावा.पृथिवीयम्.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
तक्षन्.रथम्.सुवृतम्.विद्मना.अपस.इत्य्.आर्भवम् ।
तक्षन्.हरी.इन्द्र.वाहा.वृषण्.वसू.इति.निनर्तिः । (सोम: अभिप्लव.सदह)
अन्तस्.तृतीयम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत.इयात् ।
आ.नो.भद्राः.क्रतवो.यन्तु.विश्वत.इति.वैश्वदेवम् । (सोम: अभिप्लव.सदह)
अप्रायुवो.रक्षितारो.दिवेद्.इव.इति.निनर्तिः ।
अन्तस्.तृतीयम्.अहः । (सोम: अभिप्लव.सदह)
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत.इयात् ।
वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम् ।
घृतम्.न.पूतम्.अग्नये.जनाम्.असि.इति.घृतवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
आ.रुद्रास.इन्द्रवन्तः.सजोषस.इति.मारुतम् ।
तृष्णजे.न.दिव.उत्सा.उदन्यव.इति । (सोम: अभिप्लव.सदह)
दिव.इति.तद्.अमुष्य.लोकस्य.रूपम् ।
त्वाम्.अग्न.ऋतायवः.समीधिर.इति.जातवेदसीयम् । (अभिप्लव.सदह)
त्वाम्.त्वाम्.इति.सप्रभृति ।
यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । (सोम: अभिप्लव.सदह)
अमुंल्.लोकम्.तृतीयेन.अह्ना.आप्नुवन्ति ।
आदित्यम्.देवम्.देवतानाम् । (सोम: अभिप्लव.सदह)
रूपम्.अधिभूतम्.चक्षुर्.आत्मन्.दधते.चक्षुर्.आत्मन्.दधते । (सोम: अभिप्लव.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0