कौषीतकिब्राह्मण · अध्याय 20.5
आयुस्.तृतीयम्.अहर्.उपयन्ति ।
तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.तृतीयस्य.अह्नः । (सोम: अभिप्लव.सदह)
त्वम्.अग्ने.वसूंर्.इह.इत्य्.आज्यम् ।
स्वयम्.सम्भृतम्.वा.एतच्.छन्दो.यद्.अह्नो.रूपेण.सम्पद्यते । (सोम: अभिप्लव.सदह)
तान्.रोहिद्.अश्व.गिर्वणस्.त्रयस्.त्रिंशतम्.आ.वह.इति ।
तत्.तृतीयस्य.अह्नो.रूपम् ।
औष्णिहो.वैश्वमनस.प्रौगः ।
रथन्तरम्.वै.साम.सृज्यमानम्.औष्णिहो.वैश्वमनसः.प्रौगो.अन्वसृज्यत ।
तद्.रूपेण.कर्म.समर्धयति । (सोम: अभिप्लव.सदह)
एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् ।
तंतम्.इद्.राधसे.मह.इति.मरुत्वतीयस्य.प्रतिपत् ।
तंतम्.इति.निनर्तिः । (सोम: अभिप्लव.सदह)
अन्तस्.तृतीयम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत.इयात् ।
प्रैतु.ब्रह्मणस्पतिर्.इति.प्रवान्.ब्राह्मणस्पत्यः । (सोम: अभिप्लव.सदह)
त्रय.इति.तत्.तृतीयस्य.अह्नो.रूपम् ।
प्रैतु.ब्रह्मणस्पतिर्.इति.प्रवान्.ब्राह्मणस्पत्यः । (सोम: अभिप्लव.सदह)
प्र.देव्य्.एतु.सूनृता.इति.निनर्तिः ।
अन्तस्.तृतीयम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम: अभिप्लव.सदह)
कद्र्यन्.हि.तत.इयात् ।
तिस्रो.मरुत्वतीयानाम्.प्रतिपदस्.त्रयो.अनुचरास्.त्रयो.ब्राह्मणस्पत्याः । (सोम: अभिप्लव.सदह)
त्रयो.वा.इमे.लोकाः ।
इमान्.एव.तल्.लोकान्.आप्नुवन्ति । (सोम: अभिप्लव.सदह)
तिष्ठा.हरी.रथ.आ.युज्यमाना.इति.मरुत्वतीयम् ।
तिष्ठ.इति.स्थितवत् । (सोम: अभिप्लव.सदह)
तद्.अन्त.रूपम् ।
अन्तस्.तृतीयम्.अहः ।
तिष्ठति.इव.वा.अन्तम्.गत्वा । (सोम: अभिप्लव.सदह)
कद्र्यन्.हि.तत.इयात् ।
इन्द्रस्य.नु.वीर्याणि.प्र.वोचम्.इति.निष्केवल्यम् । (सोम: अभिप्लव.सदह)
तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवाद्य्.अहन्न्.अहिम्.अन्वपस्.ततर्द.इति ।
यद्.एतद्.भूतम्.इव.अभि । (सोम: अभिप्लव.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0