कौषीतकिब्राह्मण · अध्याय 20.4
अभूद्.देवः.सविता.वन्द्यो.नु.न.इति.सावित्रम्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् ।
ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम्.विवत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
ततम्.मे.अपस्.तद्.उ.तायते.पुनर्.इत्य्.आर्भवम्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् ।
देवान्.हुवे.बृहत्.श्रवसः.स्वस्तय.इति.वैश्वदेवम्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
पृक्षस्य.वृष्णो.अरुषस्य.नू.सह.इति.वैश्वानरीयम्.वृषण्वत् ।
वृषा.वा.इन्द्रः । (सोम: अभिप्लव.सदह)
वृषा.त्रिष्टुप् ।
तस्माद्.वृषण्वत् । (सोम: अभिप्लव.सदह)
वृष्णे.शर्धाय.सुमखाय.वेधस.इति.मारुतम्.वृषण्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
यज्ञेन.वर्धत.जातवेदसम्.इति.जातवेदसीयम् ।
समिधानम्.सुप्रयसम्.स्वर्णरम्.इत्य्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् ।
अन्तरिक्ष.लोकम्.द्वितीयेन.आह्ना.आप्नुवन्ति ।
वायुम्.देवम्.देवतानाम् ।
आयुर्.अधिभूतम्.प्राणम्.आत्मन्.दधते । (सोम: अभिप्लव.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0