कौषीतकिब्राह्मण · अध्याय 20.3
गाम्.द्वितीयम्.अहर्.उपयन्ति ।
तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.द्वितीयस्य.अह्नः । (सोम: अभिप्लव.सदह)
त्वम्.हि.क्षैतवद्.यश.इत्य्.आज्यम् ।
त्वम्.विचक्षणे.श्रव.इति.विवत् ।
तद्.अस्य.अन्तरिक्षस्य.रूपम् । (सोम: अभिप्लव.सदह)
विवृतम्.इव.हि.इदम्.अन्तरिक्षम् ।
गार्त्समदः.प्रुगः ।
बृहद्.वै.साम.सृज्यमानम्.गार्त्समदः.प्रौगो.अन्वसृज्यत । (सोम: अभिप्लव.सदह)
तद्.रूपेण.कर्म.समर्धयति ।
एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् ।
विश्वानरस्य.वस्पतिम्.इति.मरुत्वतीयस्य.प्रतिपद्.विवती.तस्या.उक्तम्.ब्राह्मणम् ।
इन्द्र.इत्.सोमपा.एक.इत्य्.अनुचरः । (अभिप्लव.सदह)
इन्द्रः.सुतपा.विश्व.आयुर्.इति.विवांस्.तस्य.उक्तम्.ब्राह्मणम् ।
उत्तिष्ठ.ब्रह्मणस्पत.इत्य्.उद्वान्.ब्राह्मणस्पत्यः । (सोम: अभिप्लव.सदह)
उत्तिष्ठ.इत्य्.उद्वत् ।
उद्वद्.वै.द्वितीयम्.अहः ।
इमा.उ.त्वा.पुरुतमस्य.कारोर्.इति.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
सुत.इत्.त्वम्.निमिश्ल.इन्द्र.सोम.इति.निष्केवल्यम् ।
स्तोमे.ब्रह्मणि.शस्यमान.उक्थ.इत्य्.उद्वत्.तस्य.उक्तम्.ब्राह्मणम् ।
विश्वो.देवस्य.नेतुर्.इति.वैश्वदेवस्य.प्रतिपद्.विवती.तस्या.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
आ.विश्वदेवम्.सत्पतिम्.इत्य्.अनुचरो.विवांस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: अभिप्लव.सदह)
द्वे.वैश्वदेवानाम्.प्रतिपदौ ।
द्वाव्.अनुचरौ । (सोम: अभिप्लव.सदह)
द्वे.अहोरात्रे ।
षड्.ऋतुः.संवत्सरः.षड्विधः ।
अनु.द्वे.द्यावा.पृथिवी.द्वे.इमे.प्रतिष्ठे । (सोम: अभिप्लव.सदह)
षड्.अङ्गो.अयम्.आत्मा.षड्विधः ।
अनु.द्वाव्.इमौ.प्राण.अपानौ ।
.षड्.इमे.प्राणाः । (सोम: अभिप्लव.सदह)
अनु.तन्.न.संवत्सर.सम्पदो.यन्ति ।
न.आत्म.संस्कृतेर्.न.प्राण.संस्कृतेः । (सोम: अभिप्लव.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0