भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 20.2

20.2.1

ज्योतिः.प्रथमम्.अहरु.उपयन्ति ।

20.2.2

तस्य.तान्य्.एव.छन्दो.रूपाणि.यानि.प्रथमस्य.अह्नः । (सोम: अभिप्लव.सदह)

20.2.3

प्र.वो.देवाय.अग्नय.इत्य्.आज्यम्.प्रवत् ।

20.2.4

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

20.2.5

माधुच्.छन्दसः.प्रौगः ।

20.2.6

रथन्तरम्.वै.साम.सृज्यमानम्.माधुच्.छन्दस.प्रौगो.अन्वसृज्यत । (सोम: अभिप्लव.सदह)

20.2.6

तद्.रूपेण.कर्म.समर्धयति ।

20.2.8

एतद्.वा.आर्ध्नुकम्.कर्म.यद्.रूप.समृद्धम् । (सोम: अभिप्लव.सदह)

20.2.9

इन्द्रो.रथाय.प्रवतम्.कृणोति.इति.मरुत्वतीयम्.प्रवत् ।

20.2.10

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

20.2.11

आ.याह्य्.अर्वान्.उपवन्धुरा.इष्टा.इति.निष्केवल्यम्.आवत् । (सोम: अभिप्लव.सदह)

20.2.12

आवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

20.2.13

युञ्जते.मन.उत.युञ्जते.धिय.इति.सावित्रम्.युक्तवत् । (सोम: अभिप्लव.सदह)

20.2.14

युक्तवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

20.2.15

प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृधा.इति.द्यावा.पृथिवीयम्.प्रवत् । (सोम: अभिप्लव.सदह)

20.2.18

उशिजो.जग्मुर्.अभि.तानि.वेदसा.इत्य्.अभिवत् ।

20.2.19

तद्.राथन्तरम्.रूपम् ।

20.2.20

कथा.देवानाम्.कतमस्य.यामनी.इति.वैश्वदेवम् । (सोम: अभिप्लव.सदह)

20.2.21

कतम.ऊती.अभ्या.ववर्तति.इत्य्.अभिवत् ।

20.2.22

तद्.राथन्तरम्.रूपम् ।

20.2.23

वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् । (सोम: अभिप्लव.सदह)

20.2.24

तस्मिन्त्.सुम्नानि.यजमान.आ.चक.इत्य्.आवत् ।

20.2.25

आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

20.2.26

प्रत्यक्षसः.प्रतवसो.विरप्शिन.इति.मारुतम्.प्रवत् ।

20.2.27

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: अभिप्लव.सदह)

20.2.28

एहि.प्र.होता.व्रतम्.अस्य.मायया.इति.जातवेदसीयम्.प्रवत् । (सोम: अभिप्लव.सदह)

20.2.29

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

20.2.30

इमंल्.लोकम्.प्रथमेन.अह्ना.आप्नुवन्ति ।

20.2.31

अग्निम्.देवम्.देवतानाम् ।

20.2.32

नाम.अधिभूतम्.वाचम्.आत्मन्.दधते । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc