भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 20.1

20.1.1

देव.चक्रम्.वा.एतत्.परिप्लवम्.यत्.संवत्सरः ।

20.1.2

तद्.अमृतम् ।

20.1.3

तस्मिन्न्.एतत्.षट्.तयम्.अन्न.अद्यम् । (सोम: अभिप्लव.सदह)

20.1.4

ग्राम्याश्.च.पशव.आरण्याश्.च.ओषधयश्.च.वनस्पतयश्.च.अप्सु.चरम्.च.परिप्लवम्.च । (सोम: अभिप्लव.सदह)

20.1.5

तद्.देवाः.समारुह्य.सर्वांल्.लोकान्.अनु.परिप्लवन्ते ।

20.1.6

देव.लोकम्.पितृ.लोकम्.जीव.लोकम् ।

20.1.7

इमम्.उप.उदकम्.अग्नि.लोकम् ।

20.1.8

ऋत.धामानम्.वायु.लोकम् ।

20.1.9

अपराजितम्.इन्द्र.लोकम् ।

20.1.10

अधिदिवम्.वरुण.लोकम् ।

20.1.11

प्रतिदिवम्.मृत्यु.लोकम् । (सोम: अभिप्लव.सदह)

20.1.12

रोचनम्.ब्रह्मणो.लोकम् ।

20.1.13

नाकम्.सत्तमंल्.लोकानाम् ।

20.1.14

तद्.यद्.अभिप्लवम्.उपयन्ति । (सोम: अभिप्लव.सदह)

20.1.15

संवत्सरम्.एव.त.यजमानाः.समारोहन्ति ।

20.1.16

तस्मिन्न्.एतत्.षट्तयम्.अन्न.अद्यम्.आप्नुवन्ति.ग्राम्यांश्.च.पशून्.आरण्यांश्.च.ओषधीश्.च.वनस्पतींश्.च.अप्सु.चरम्.च.परिप्लवम्.च । (सोम: अभिप्लव.सदह)

20.1.17

द्विर्.ज्योतिउ.उपयन्ति ।

20.1.18

तेन.द्वयम्.अन्न.अद्यम्.आप्नुवन्ति.ग्राम्यांश्.च.पशून्.आरण्यांश्.च । (सोम: अभिप्लव.सदह)

20.1.19

द्विर्.गाम्.उपयन्ति ।

20.1.20

तेन.द्वयम्.अन्न.अद्यम्.आप्नुवन्त्य्.ओषधीश्.च.वनस्पतींश्.च । (सोम: अभिप्लव.सदह)

20.1.21

द्विर्.आयुर्.उपयन्ति ।

20.1.22

तेन.द्वयम्.अन्न.अद्यम्.आप्नुवन्त्य्.अप्सु.चरम्.च.परिप्लवम्.च । (सोम: अभिप्लव.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc