कौषीतकिब्राह्मण · अध्याय 19.7
तद्द्.ह.एतद्.अहर्.एके.छन्दोगाः.सर्व.स्तोमम्.कुर्वन्ति ।
अनेन.अह्ना.षड्.अहम्.आप्नुमः । (सोम: गवामयन)
षड्.अहेन.संवत्सरम् ।
ये.च.संवत्सरे.कामाः ।
षड्.अहो.वा.उ.सर्वः.संवत्सर.इति.वदन्तः । (सोम: गवामयन)
ते.यदि.तथा.कुर्युः ।
षड्.अह.क्लृप्तम्.शस्त्रम्.कल्पयीत ।
यत्.प्रथमस्य.अह्न.आज्यम्.तद्.आज्यम् । (सोम: गवामयन)
यच्.चतुर्थस्य.अह्नो.निष्केवल्यम्.तन्.निष्केवल्यम् ।
यत्.पञ्चमस्य.अह्नो.वैश्वदेवम्.तद्.वैश्वदेवम् । (सोम: गवामयन)
यत्.षष्ठस्य.अह्न.आग्निमारुतम्.तद्.आग्निमारुतम् ।
तत्र.पृष्ठ्य.स्तोत्रियान्त्.सर्वान्त्.समाहृत्य.उपरिष्टात्.प्रगाथस्य.प्रगाथी.कृत्य.शंसेत्.षड्.अहस्य.आप्त्यै । (सोम: गवामयन)
तद्.यथा.एव.एतेन.अह्ना.छन्दोगाः.षड्.अहम्.आप्नुवन्ति.षड्.अहेन.संवत्सरम् । (सोम: गवामयन)
ये.च.संवत्सरे.कामाः ।
एवम्.एव.एतेन.अह्ना.होता.षड्.अहम्.आप्नोति.षड्.अहेन.संवत्सरम् ।
ये.च.संवत्सरे.कामाः । (सोम: गवामयन)
तद्द्.ह.स्म.एतत्.प्रदिश्य.आह.सा.एषा.मुग्धिर्.एव.इति ।
यम्.कम्.च.छन्दोगाः.स्तोमम्.उपापद्येर । (सोम: गवामयन)
न.तद्.आद्रियेत ।
यद्.एव.इदम्.शस्त्रम्.प्र्रवोचाम ।
तत.एव.नेयात् । (सोम: गवामयन)
एते.वा.उ.स्तोम.साहे.सूक्ते.यत्.कयाशुभीय.तदिदासीये ।
ताभ्याम्.एव.न.निश्च्यवेत.इति.न.निश्च्यवेत.इति । (सोम: गवामयन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0