भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 2.7

2.7.1

रात्रिर्.एव.अहन्.जुहोत्य्.अहो.रात्रौ ।

2.7.2

प्राण.एव.अपाने.जुहोत्य्.अपानः.प्राणे ।

2.7.3

तानि.वा.एतानि.षड्.जुह्वत्य्.अन्योन्य.आत्मानम् । (अग्निहोत्र)

2.7.4

स.य.एतानि.षड्.जुह्वति.वेद ।

2.7.5

अजुह्वत.एव.अस्य.अग्निहोत्रम्.हुतम्.भवति ।

2.7.6

जुह्वत.एव.अस्य.द्विर्.हुतम्.भवति.य.एवम्.एव ।

2.7.7

स.यदि.ह.वा.अपि.सुरुशाद्.एवम्.विद्वान्.अग्निहोत्रम्.जुहोति । (अग्निहोत्र)

2.7.8

प्रति.ह.एव.अस्य.एते.देवा.आहुती.गृह्णन्ति ।

2.7.9

यस्यो.ह.वा.अपि.देवाः.सकृद्.अश्नन्ति । (अग्निहोत्र)

2.7.10

तत.एव.सो.अमृतः ।

2.7.11

सत्यमयो.ह.वा.अमृतमयः.सम्भवति.य.एवम्.वेद । (अग्निहोत्र)

2.7.12

तद्.यथा.ह.वै.श्रद्धाद्.(.एव.अस्य.).सत्य.वादिनस्.तपस्विनो.हुतम्.भवति ।

2.7.13

एवम्.ह.एव.अस्य.हुतम्.भवति । (अग्निहोत्र)

2.7.14

य.एवम्.विद्वान्.अग्निहोत्रम्.जुहोति ।

2.7.15

तस्माद्.एवंविद्.अग्निहोत्रम्.जुहुयाद्.इति ।

2.7.16

उदिते.होतव्यम्.अनुदित.इति.मीमांसन्ते । (अग्निहोत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc