भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 2.6

2.6.1

स.वै.सायम्.जुहोत्य्.अग्निर्.ज्योतिर्.ज्योतिर्.अग्निर्.इति ।

2.6.2

तम्.ज्योतिः.सन्तम्.ज्योतिर्.इत्य्.आह ।

2.6.3

स.सत्यम्.वदति । (अग्निहोत्र)

2.6.4

तस्य.अयम्.वान्मय.आत्मा.सत्यमयो.भवति ।

2.6.5

सत्यमया.उ.देवाः ।

2.6.6

अथ.स्वाहा.इति.जुहोति । (अग्निहोत्र)

2.6.7

तस्य.एताम्.देवाः.सत्य.हुतस्य.आहुतिम्.प्रतिगृह्णन्ति ।

2.6.8

रात्र्या.उ.शीर्षन्त्.सत्यम्.वदति । (अग्निहोत्र)

2.6.9

स.यदि.ह.वा.अपि.तत.ऊर्ध्वम्.मृषा.वदति ।

2.6.10

सत्यम्.ह.एव.अस्य.उदितम्.भवति । (अग्निहोत्र)

2.6.11

रात्र्या.उ.हि.शीर्षन्त्.सत्यम्.वदति ।

2.6.12

अथ.प्रातर्.जुहोति.सूर्यो.ज्योतिर्.ज्योतिः.सूर्य.इति । (अग्निहोत्र)

2.6.13

तम्.ज्योतिः.सन्तम्.ज्योतिर्.इत्य्.आह ।

2.6.14

स.सत्यम्.वदति ।

2.6.15

तस्य.अयम्.वान्मय.आत्मा.सत्यमयो.भवति । (अग्निहोत्र)

2.6.16

सत्यमया.उ.देवाः ।

2.6.17

अथ.स्वाहा.इति.जुहोति ।

2.6.18

तस्य.एताम्.देवाः.सत्य.हुतस्य.आहुतिम्.प्रतिगृह्णन्ति । (अग्निहोत्र)

2.6.19

अह्न.उ.शीर्षन्त्.सत्यम्.वदति ।

2.6.20

स.यदि.ह.वा.अपि.तत.ऊर्ध्वम्.मृषा.वदति ।

2.6.21

सत्यम्.ह.एव.अस्य.उदितम्.भवति । (अग्निहोत्र)

2.6.22

अह्न.उ.हि.शीर्षन्त्.सत्यम्.वदति ।

2.6.23

स.वा.एषो.अग्निर्.उद्यत्य्.आदित्य.आत्मानम्.जुहोति ।

2.6.24

असाव्.अस्तम्.यन्त्.साये.अग्नाव्.आदित्य.आत्मानम्.जुहोति । (अग्निहोत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc