कौषीतकिब्राह्मण · अध्याय 2.8
स.य.उदिते.जुहोति ।
प्रसवत.एव.एतन्.महते.देवाय.आतिथ्यम्.करोति ।
अथ.यो.अनुदिते.जुहोति ।
सम्निहिताय.एव.एतन्.महते.देवाय.आतिथ्यम्.करोति । (अग्निहोत्र)
तस्माद्.अनुदिते.होतव्यम् ।
तद्द्.ह.अपि.वृष.शुष्मो.वातावतः.पूर्वेषाम्.एको.जीर्णिः.शयानो.रात्र्याम्.एव.उभे.आहुती.हूयमाने.दृष्ट्वा.उवाच ।
रात्र्याम्.एव.उभे.आहुती.जुह्वति.इति । (अग्निहोत्र)
रात्र्या.हि.इति.स.ह.उवाच ।
वक्ता.अस्मो.(.वक्तास्मो).न्व्.एव.वयम्.अमुंल्.लोकम्.परेत्य.पितृभ्यः । (अग्निहोत्र)
अथो.एव.एनम्.न.श्रद्धातारः ।
यद्.व्.एव.एतद्.उभये.द्युर्.अग्निहोत्रम्.अहूयत । (अग्निहोत्र)
अन्ये.द्युर्.वा.तद्.एतर्हि.हूयते ।
रात्र्याम्.एव.इत्य्.एतद्.एव.कुमारी.गन्धर्व.गृहीता.उवाच । (अग्निहोत्र)
रात्र्याम्.एव.उभे.आहुती.जुह्वति.इति ।
रात्र्याम्.हि.इति.सा.ह.उवाच ।
संधौ.जुहुयात् । (अग्निहोत्र)
समुद्रो.ह.वा.एष.सर्वम्.हरो.यद्.अहो.रात्रे ।
तस्य.ह.एते.गाधे.तीर्थे.यत्.संध्ये । (अग्निहोत्र)
तद्.यथा.गाधाभ्याम्.तीर्थाभ्याम्.समुद्रम्.अतीयात्.तादृक्.तत् ।
यत्.संधौ.जुहोति । (अग्निहोत्र)
अथो.देव.सेना.ह.वा.एष.अध्वगा.हनिष्यन्ती.यद्.अहो.रात्रे । (अग्निहोत्र)
तस्या.ह.एते.पक्षसी.यत्.संध्ये ।
तद्.यथा.पक्षाभ्याम्.क्षिप्रम्.अध्वानम्.अन्वियात्.तादृक्.तत् । (अग्निहोत्र)
यत्.संधौ.जुहोति ।
अथो.मृत्योर्.ह.वा.एतौ.विराज.बाहू.यद्.अहोरात्रे । (अग्निहोत्र)
तद्.यथा.विराज.बाहुभ्याम्.परिजिग्रहीष्यन्न्.अन्तरेण.अतिमुच्येत.तादृक्.तत् ।
यत्.संधौ.जुहोति । (अग्निहोत्र)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0