भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 2.5

2.5.1

अन्नाद्.एव.ते.सर्वे.जायन्ते ।

2.5.2

ते.देवा.अब्रुवन् ।

2.5.3

कथम्.न्व्.इमान्.वयम्.आनन्दान्.अस्मादृशस्य.एव.प्रतिगृह्णीयाम.इति । (अग्निहोत्र)

2.5.4

ते.अपाम्.ऊर्ध्वम्.रसम्.उदौहन् ।

2.5.5

ता.ओषधयश्.च.वनस्पतयश्.च.समभवन् ।

2.5.6

ओषधीनाम्.च.वनस्पतीनाम्.च.ऊर्ध्वम्.रसम्.उदौहन् ।

2.5.7

तत्.फलम्.अभवत् । (अग्निहोत्र)

2.5.8

फलस्य.ऊर्ध्वम्.रसम्.उदौहन् ।

2.5.9

तद्.अन्नम्.अभवत् ।

2.5.10

अन्नस्य.ऊर्ध्वम्.रसम्.उदौहन् ।

2.5.11

तद्.रेतो.अभवत् । (अग्निहोत्र)

2.5.12

रेतस.ऊर्ध्वम्.रसम्.उदौहन् ।

2.5.13

स.पुरुषो.अभवत् ।

2.5.14

सो.अयम्.पुरुषो.यत्.प्राणिति.वा.अपानिति.वा । (अग्निहोत्र)

2.5.15

न.तत्.प्राणेन.न.अनापेन.आह.इति.प्राणिषम्.वा.अपानिषम्.वा.इति ।

2.5.16

वाचा.एव.तद्.आह । (अग्निहोत्र)

2.5.17

तत्.प्राण.अवानौ.वाचम्.अपीतो.वान्मयौ.भवतः ।

2.5.18

अथ.यच्.चक्षुषा.पश्यति । (अग्निहोत्र)

2.5.19

न.तच्.चक्षुषा.आह.इत्य्.अद्राक्षम्.इति ।

2.5.20

वाचा.एव.तद्.आह ।

2.5.21

तच्.चक्षुर्.वाअचम्.अप्येति.वान्मयम्.भवति । (अग्निहोत्र)

2.5.22

अथ.यत्.श्रोत्रेण.शृणोति ।

2.5.23

न.तत्.श्रोत्रेण.आह.इत्य्.अश्रौषम्.इति ।

2.5.24

वाचा.एव.तद्.आह । (अग्निहोत्र)

2.5.25

तत्.श्रोत्रम्.वाचम्.अप्येति.वान्मयम्.भवति ।

2.5.26

अथ.यन्.मनसा.संकल्पयते ।

2.5.27

न.तन्.मनसा.आह.इति.समचीकॢपम्.इति । (अग्निहोत्र)

2.5.28

वाचा.एव.तद्.आह ।

2.5.29

तन्.मनो.वाचम्.अप्येति.वान्मयम्.भवति ।

2.5.30

अथ.यद्.अङ्गैः.सुशीमम्.वा.दुह्शीमम्.वा.स्पृशति । (अग्निहोत्र)

2.5.31

न.तद्.अङ्गैर्.आह.इति.सुशीमम्.वा.दुह्शीमम्.वा.अस्प्राक्षम्.इति ।

2.5.32

वाचा.एव.तद्.आह । (अग्निहोत्र)

2.5.33

तत्.सर्व.आत्मा.वाचम्.अप्येति.वान्मयो.भवति ।

2.5.34

तद्.एतद्.ऋचा.अभ्युदितम् । (अग्निहोत्र)

2.5.35

न.इन्द्राद्.ऋते.पवते.धाम.किंचन.इति ।

2.5.36

वाग्.वा.इन्द्रः ।

2.5.37

न.ह्य्.ऋते.वाचः.पवते.धाम.किंचन । (अग्निहोत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc