भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 2.4

2.4.1

आहवनीय.एव.जुहुयाद्.इति.ह.एक.आहुः ।

2.4.2

सर्वेषु.त्व्.एव.जुहुयात् ।

2.4.3

होमाय.ह्य्.एत.आधीयन्ते ।

2.4.4

चतस्रो.गार्हपत्ये ।

2.4.5

चतस्रो.अन्वाहार्य.पचने ।

2.4.6

द्वे.आहवनीये । (अग्निहोत्र)

2.4.7

ता.दश.सम्पद्यते ।

2.4.8

दश.दशिनी.विराट् ।

2.4.9

श्रीर्.विराड्.अन्न.अद्यम् ।

2.4.10

श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (अग्निहोत्र)

2.4.11

स.य.एवम्.विराट्.सम्पन्नम्.अग्निहोत्रम्.जुहोति ।

2.4.12

सर्वान्.कामान्.आप्नोति ।

2.4.13

अथ.यद्द्.हुत्वा.अग्नीन्.उपतिष्ठते । (अग्निहोत्र)

2.4.14

प्रीत्वा.एव.तद्.देवेष्व्.अन्ततो.अर्थम्.वदते ।

2.4.15

यद्.व्.एव.वत्सम्.स्पृशति ।

2.4.16

तस्माद्.वात्सप्रम् । (अग्निहोत्र)

2.4.17

तथा.ह.यजमानात्.पशवो.अनुत्क्रामुका.भवन्ति ।

2.4.18

अथ.यद्.अप.आचम्य.व्रतम्.विसृजते । (अग्निहोत्र)

2.4.19

अप्स्व्.एव.तद्.व्रतम्.दधाति ।

2.4.20

ता.अस्य.व्रतम्.गोपायन्त्या.पुनर्.होमात् ।

2.4.21

अथो.यत्.प्रवत्स्यंश्.च.प्रोषिवांश्.च.अग्नीन्.उपतिष्ठते । (अग्निहोत्र)

2.4.22

अभिवादो.ह.एष.देवतायै.यद्.उत्काशम्.भवति ।

2.4.23

अथो.अग्निभ्य.एव.एतद्.आत्मानम्.परिददाति । (अग्निहोत्र)

2.4.24

ये.च.एनम्.अन्वञ्चो.भवन्ति ।

2.4.25

अथ.यद्.अरण्योर्.अग्नीन्त्.समारोपयते । (अग्निहोत्र)

2.4.26

देव.रथो.वा.अरणी ।

2.4.27

देव.रथ.एव.एनांस्.तत्.समारोपयते ।

2.4.28

स.एतेन.देव.रथेन.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । (अग्निहोत्र)

2.4.29

यद्.व्.एव.पुनः.पुनर्.निर्मन्थते ।

2.4.30

तेनो.ह.एव.अस्य.पुनर्.आधेयम्.उपाप्तम्.भवति । (अग्निहोत्र)

2.4.31

ये.वै.के.च.आनन्दा.अन्ने.पाने.मिथुने ।

2.4.32

रात्र्या.एव.ते.संतता.अव्यवच्छिन्नाः.क्रियन्ते ।

2.4.33

तेषाम्.रात्रिः.कारोतरः ।

2.4.34

य.उ.वै.के.च.आनन्दाः । (अग्निहोत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc