भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 1.5

1.5.1

पद.पङ्क्तयो.याज्या.पुरोनुवाक्याः ।

1.5.2

पञ्च.पदा.पङ्क्तिः ।

1.5.3

पाङ्क्तो.वै.यजो.यज्ञस्य.एव.आप्त्यै । (अग्न्याधान)

1.5.4

व्यतिषक्ता.भवन्ति ।

1.5.5

व्यतिषक्ता.इव.वा.इमे.प्राणा.आत्मानम्.भुञ्जन्ति.इति ।

1.5.6

सा.सर्वा.एव.ससामिधेनीक.उपांशु.भवत्य्.आपूर्वाभ्याम्.अनुयाजाभ्याम् । (अग्न्याधान)

1.5.7

आ.ह्य्.अतो.विभक्तयो.अनुप्रोता.भवन्ति ।

1.5.8

अथो.सर्वे.वै.कामा.विभक्तिषु ।

1.5.9

तस्माद्.उपांशु.भवन्ति । (अग्न्याधान)

1.5.10

सर्वेषाम्.एव.कामानाम्.आप्त्यै ।

1.5.11

उच्चैस्.त्व्.एव.उत्तमेन.अनुयाजेन.यजति ।

1.5.12

उच्चैः.सूक्त.वाक.शम्यु.वाक.आवाह । (अग्न्याधान)

1.5.13

तद्.यथा.विदम्.इत्य्.आविर्.नष्टम्.क्रुयात् ।

1.5.14

एवम्.तद्.आविः.कामान्.करोत्य्.आपम्.इति । (अग्न्याधान)

1.5.15

त्रयम्.ह.एक.उपांशु.कुर्वन्ति.विभक्तीर्.उत्तरम्.आज्य.भागम्.हविर्.इति । (अग्न्याधान)

1.5.16

एतावद्द्.ह्य्.आगन्तु.भवति.इति ।

1.5.17

सा.वा.उपांशु.निरुक्ता.भवति ।

1.5.18

द्वयम्.वा.अग्रे.रूपम्.निरुक्तम्.च.अनिरुक्तम्.च । (अग्न्याधान)

1.5.19

तद्.एव.अस्य.तेन.आप्नोति ।

1.5.20

सर्व.आग्नेयम्.ह.एके.कुर्वन्ति ।

1.5.21

न.तथा.कुर्यात् ।

1.5.22

तस्यै.पुनर्.उत्स्यूतो.जरत्.संव्याहः.पुनः.संस्कृतः.कद्रथो.अनड्वान्.हिरण्यम्.वा.दक्षिणा । (अग्न्याधान)

1.5.23

पुनः.कर्म.ह्य्.एतत् ।

1.5.24

आदित्या.द्वितीया ।

1.5.25

प्रतिष्ठा.वा.अदिथि ।

1.5.26

प्रतिष्ठित्या.एव.प्रतिष्ठित्या.एव । (अग्न्याधान)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc