भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 19.6

19.6.1

कया.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् ।

19.6.2

तस्य.अनुत्तमा.ते.मघवन्.नकिर्न्व्.इति.नवमी ।

19.6.3

तया.परिदधात्य्.उत्तराः.पूर्वाः.शस्त्वा । (सोम: गवामयन)

19.6.4

मारुत्यो.हि.ता.भवन्ति ।

19.6.5

अथ.एषा.निष्केवल्या ।

19.6.6

तस्माद्.एतया.परिदधाति । (सोम: गवामयन)

19.6.7

तस्मिन्.वा.अस्ति.समान्या.मरुतः.सम्.मिमिक्षुर्.इति ।

19.6.8

संवत्.तत्.संवत्सरम्.अभिवदति । (सोम: गवामयन)

19.6.9

तद्.एतस्य.अह्नो.रूपम् ।

19.6.10

तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.इति.बृहद्दिवो.निष्केवल्यम् । (सोम: गवामयन)

19.6.11

बृहद्.दिवेन.अत्र.होता.रेतः.सिञ्चति ।

19.6.12

तद्.अदो.महा.व्रतीयेन.अह्ना.प्रजनयति.संवत्सरे ।

19.6.13

संवत्सरे.वै.रेतः.सिक्तम्.जायते । (सोम: गवामयन)

19.6.14

तस्मिन्.वा.अस्ति.सम्.ते.नवन्त.प्रभृता.मदेष्व्.इति ।

19.6.15

संवत्.तत्.संवत्सरम्.अभिवदति । (सोम: गवामयन)

19.6.16

तद्.एतस्य.अह्नो.रूपम् ।

19.6.17

तत्.सवितुर्.वृणीमहे.अद्या.नो.देव.सवितर्.इति.नित्या.एव.वैश्वदेवस्य.प्रतिपच्.च.अनुचरश्.च.तयोर्.उक्तम्.ब्राह्मणम् । (सोम: गवामयन)

19.6.18

तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् ।

19.6.19

तस्मिन्.वा.अस्ति.प्रजावन्तम्.रयिम्.अस्मे.समिन्वत्व्.इति ।

19.6.20

संवत्.तत्.संवत्सरम्.अभिवदति । (सोम: गवामयन)

19.6.21

तद्.एतस्य.अह्नो.रूपम् ।

19.6.22

ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम् ।

19.6.23

तस्मिन्.वा.अस्ति.पनाय्यम्.ओजो.अस्मे.समिन्वतम्.इति । (सोम: गवामयन)

19.6.24

संवत्.तत्.संवत्सरम्.अभिवदति ।

19.6.25

तद्.एतस्य.अह्ने.रूपम् ।

19.6.26

किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भम् ।

19.6.27

तस्मिन्.वा.अस्ति.संवत्सर.इदम्.अद्या.व्याख्यत.इति । (सोम: गवामयन)

19.6.28

तत्.प्रत्यक्षम्.संवत्सरम्.अभिवदति ।

19.6.29

तद्.एतस्य.अह्नो.रुपम् । (सोम: गवामयन)

19.6.30

यज्ञस्य.वो.रथ्यम्.विश्पतिम्.विशाम्.इति.शार्यातम्.वैश्वदेवम् । (सोम: गवामयन)

19.6.31

तस्मिन्.वा.अस्ति.इन्द्रो.मित्रो.वरुणः.सम्.चिकित्रिर.इति ।

19.6.32

संवत्.तत्.संवत्सरम्.अभिवदति । (सोम: गवामयन)

19.6.33

तद्.एतस्य.अह्नो.रूपम् ।

19.6.34

वैश्वानराय.धिषणाम्.ऋतावृध.इति.वैश्वानरीयम् ।

19.6.35

तस्मिन्.वा.अस्ति.धिया.रथम्.न.कुलिशः.समृण्वति.इति । (सोम: गवामयन)

19.6.36

संवत्.तत्.संवत्सरम्.अभिवदति ।

19.6.37

तद्.एतस्य.अह्नो.रूपम् ।

19.6.38

वृष्णे.शर्धाय.सुमखाय.वेधस.इति.मारुतम् ।

19.6.39

तस्मिन्.वा.अस्ति.गिरः.समञ्जे.विदथेष्व्.आभुव.इति । (सोम: गवामयन)

19.6.40

संवत्.तत्.संवत्सरम्.अभिवदति ।

19.6.41

तद्.एतस्य.अह्नो.रूपम् ।

19.6.42

यज्ञेन.वर्धत.जात.वेदसम्.इति.जात.वेदसीयम् । (सोम: गवामयन)

19.6.43

तस्मिन्.वा.अस्ति.संददस्वान्.रयिम्.अस्मासु.दीदिहि.इति ।

19.6.44

संवत्.तत्.संवत्सरम्.अभिवदति ।

19.6.45

तद्.एतस्य.अह्नो.रूपम् । (सोम: गवामयन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc