भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 19.5

19.5.1

मुखम्.वा.एतत्.संवत्सरस्य.यच्.चतुर्विंशः ।

19.5.2

तस्माद्.अग्निष्टोमो.भवति ।

19.5.3

अग्निष्टोमो.हि.यज्ञानाम्.मुखम् । (सोम: गवामयन)

19.5.4

मुखत.एव.तत्.संवत्सरम्.प्रीणन्ति ।

19.5.5

तद्द्.ह.एक.उक्थ्यम्.कुर्वन्ति ।

19.5.6

यज्ञस्य.एव.सभारतायै । (सोम: गवामयन)

19.5.7

तस्य.चतुर्विंशः.स्तोमो.भवति ।

19.5.8

चतुर्विंशतिर्.वै.संवत्सरस्य.अर्ध.मासाः । (सोम: गवामयन)

19.5.9

संवत्सरस्य.एव.आप्त्यै ।

19.5.10

तस्य.वै.त्रीणि.षष्टि.शतानि.स्तोत्रियाणाम्.भवन्ति । (सोम: गवामयन)

19.5.11

त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् ।

19.5.12

तत्.संवत्सरस्य.अहान्य्.आप्नुवन्ति । (सोम: गवामयन)

19.5.13

तस्य.बृहत्.पृष्ठम्.भवति ।

19.5.14

द्वितीयम्.वा.एतद्.अह्नाम्.द्वितीयम्.बृहत्.पृष्ठानाम् । (सोम: गवामयन)

19.5.15

तस्माद्.अस्य.बृहत्.पृष्ठम्.भवति ।

19.5.16

अथ.यत्र.चतुर्विंश.स्तोमम्.उपयन्ति ।

19.5.17

अवधृतम्.वा.उ.तत्र.महा.व्रतम् । (सोम: गवामयन)

19.5.18

बृहद्.उ.वा.आयतनेन.महा.व्रतस्य.पृष्ठम्.भवति ।

19.5.19

तस्माद्.बृहद्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति । (सोम: गवामयन)

19.5.20

तस्य.संवत्.संवत्सरम्.अभि.पर्युदितानि.छन्दो.रूपाणि ।

19.5.21

होता.अजनिष्ट.चेतन.इत्य्.अष्टर्चम्.आज्यम्.गायत्री.मात्रम् । (सोम: गवामयन)

19.5.22

गायत्री.मात्रो.वै.स्तोमः ।

19.5.23

तद्.वै.शस्त्रम्.समृद्धम्.यस्.स्तोमेन.सम्पद्यते । (सोम: गवामयन)

19.5.24

माधुच्.छन्दसः.प्रौगः.स.वै.समृद्धः ।

19.5.25

तस्य.रूपेण.अन्ये.प्रौगाः.कल्पन्ते ।

19.5.26

समृद्धम्.मे.प्रथमतः.कर्म.कृतम्.असद्.इति । (सोम: गवामयन)

19.5.27

आ.त्वा.रथम्.यथा.ऊतय.इति.मरुत्वतीयस्य.प्रतिपत् ।

19.5.28

इदम्.वसो.सुतम्.अन्ध.इत्य्.अनुचरः । (सोम: गवामयन)

19.5.29

एष.एव.नित्य.एकाह.आतानस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: गवामयन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc