कौषीतकिब्राह्मण · अध्याय 19.4
तद्.आहुर्.यद्.एते.देवते.आवाहयति.त्वष्टारम्.च.वनस्पतिम्.च.क्व.अस्य.एते.इष्टे.भवत.इति ।
प्रयाजेषु.वा.एते.देवते.यजति ।
अत्र.एव.अस्य.एते.इष्टे.भवत.इति ।
अथ.अनूबन्ध्यस्य.पशु.पुरोडाशम्.अन्वञ्चि.देविकाभ्यो.हवींषि.निर्वपन्ति । (सोम: गवामयन)
यात.यामानि.ह.वा.एतस्य.छन्दांसि.भवन्ति.यः.सोमेन.यजते ।
छन्दांसि.वै.देविकाः । (सोम: गवामयन)
तद्.यद्.देविकाभ्यो.हवींषि.निर्वपन्ति ।
तेन.ह.अस्य.अयात.यामानि.पुनर्.यामानि.भवन्ति ।
अथो.धिर.रसानि.ह.वा.एतस्य.छन्दांसि.भवन्ति.यः.सोमेन.यजन्ते ।
छन्दांसि.वै.देविकाः ।
तद्.यद्.देविकाभ्यो.हवींषि.निर्वपन्ति । (सोम: गवामयन)
छन्दसाम्.एव.सरसतायै ।
ता.वा.एता.देव्यः ।
अथ.एष.कः.प्रजापतिः । (सोम: गवामयन)
तस्माद्.देविकाः ।
तानि.वै.पञ्च.हवींषि.भवन्ति ।
पञ्च.पदा.पङ्क्तिः । (ङवामयन)
पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै ।
अत्र.ह.एके.देवीभ्यो.हवींषि.निर्वपन्ति ।
सर्वम्.वा.अग्नि.चित्या । (सोम: गवामयन)
सर्वेण.सर्वम्.आप्नवाम.इति ।
तानि.वै.दश.हवींषि.भवन्ति ।
दश.दशिनी.विराट् । (सोम: गवामयन)
श्रीर्.विराड्.अन्न.अद्यम् ।
श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै ।
अत्र.ह.एके.दिशाम्.अवेष्टीः.कुर्वन्ति ।
सर्वम्.वा.अग्नि.चित्या । (सोम: गवामयन)
सर्वेण.सर्वम्.आप्नवाम.इति ।
तानि.वै.षड्ड्.हवींषि.भवन्ति । (सोम: गवामयन)
षड्.वा.ऋतवः.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै ।
अथ.उदवसानीयायाम्.संस्थितायाम्.मैत्रावरुण्या.पयस्यया.यजेत.तस्या.उक्तम्.ब्राह्मणम् । (सोम: गवामयन)
न.एतया.अनिष्ट्वा.अग्निचिन्.मैथुनम्.चरेद्.इति । (सोम: गवामयन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0