कौषीतकिब्राह्मण · अध्याय 19.3
अथ.होतारम्.आहुर्.अग्न्य्.उक्थम्.अनुशंस.इति ।
रुद्रो.ह.वा.एष.देवानाम्.अशान्तः.संचितो.भवति । (सोम: गवामयन)
तम्.एव.एतत्.शमयन्ति ।
निरुक्तम्.वैश्वानरम्.यजति ।
निरुक्तो.ह्य्.एष.तदा.भवति.यदा.अग्नीन्.प्रणयन्ति । (सोम: गवामयन)
अथ.अत.ऊर्ध्वम्.ऐकाहिकम्.कर्म ।
हविर्.धानयोः.प्रवर्तनम्.अग्नीषोमयोः.प्रणयनम्.अग्नीषोमीयः.पशुस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: गवामयन)
अथ.अग्नीषोमीयस्य.पशु.पुरोडाशम्.अन्वञ्चि.देवसूभ्यो.हवींषि.निर्पवन्ति । (सोम: गवामयन)
एता.ह.वै.देवताः.सवानाम्.ईशते ।
ता.अत्र.प्रीणन्ति । (सोम: गवामयन)
ता.एभ्यः.प्रीताः.सवान्.प्रस्वन्ति ।
तस्माद्.देव.स्वः ।
ता.वा.अष्टौ.भवन्ति । (सोम: गवामयन)
एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत ।
तथो.एव.एतद्.यजमाना.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुवते । (सोम: गवामयन)
अत्र.ह.एके.सर्व.पृष्ठायै.हवींषि.निर्वपन्ति ।
सर्वम्.वा.अग्नि.चित्या । (सोम: गवामयन)
सर्वेण.सर्वम्.आप्नवाम.इति ।
तानि.वै.दश.हवींषि.भवन्ति ।
दश.दशिनी.विराट् । (सोम: गवामयन)
श्रीर्.विराड्.अन्न.अद्यम् ।
श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै ।
अथ.सुन्वन्ति.यावद्.अहम्.कामयन्ते । (सोम: गवामयन)
अथ.अनूबन्ध्यस्य.वपायाम्.संस्थितायाम्.त्वाष्ट्रेण.पशुना.चरन्ति । (सोम: गवामयन)
रेतः.सिक्तिर्.वै.त्वाष्ट्रः ।
पत्नी.शाले.चरन्ति ।
पत्नीषु.वै.रेतः.सिच्यते । (सोम: गवामयन)
उपांशु.चरन्ति ।
रेतः.सिक्तिर्.वै.त्वाष्ट्रः ।
उपांशु.वै.रेतः.सिच्यते ।
पर्यग्निकृतम्.उत्सृजन्ति.न.संस्थापयन्ति । (सोम: गवामयन)
रेतः.सिक्तिर्.वै.त्वाष्ट्रः ।
न.इद्.रेतः.सिक्तम्.पुरा.कालात्.संस्थापयाम.इति । (सोम: गवामयन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0