कौषीतकिब्राह्मण · अध्याय 19.2
प्रायणीयेन.अतिरात्रेण.यक्ष्यमाणाः ।
तद्.एनम्.प्रथमम्.आप्नुवन्ति ।
तम्.चतुर्विंशेन.आरभन्ते । (सोम: गवामयन)
तद्.आरम्भणीयस्य.आरम्भणीयत्वम् ।
स.षण्.मासान्.उदन्न्.एति ।
तम्.ऊर्ध्वैः.षडहैर्.अनुयन्ति । (सोम: गवामयन)
स.षण्.मासान्.उदन्नित्वा.तिष्ठते.दक्षिणा.आवर्त्स्यन् ।
उप.इमे.वसन्ति.वैषुवतीयेन.अह्ना.यक्ष्यमाणाः । (सोम: गवामयन)
तद्.एनम्.द्वितीयम्.आप्नुवन्ति ।
स.षण्.मासान्.दक्षिणा.एति ।
तम्.आवृत्तैः.षडहैर्.अनुयन्ति । (सोम: गवामयन)
स.षण्.मासान्.दक्षिणेत्वा.तिष्ठत.उदन्न्.आवर्त्स्यन् ।
उप.इमे.वसन्ति.माहाव्रतीयेन.अह्ना.यक्ष्यमाणाः ।
तद्.एनम्.तृतीयम्.आप्नुवन्ति । (सोम: गवामयन)
तम्.यत्.त्रिर्.आप्नुवन्ति ।
त्रेधा.विहितो.वै.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै । (सोम: गवामयन)
तद्.उत.एषा.अभिगीयते ।
अहोरात्राणि.विदधद्.ऊर्णाका.इव.धीर्यः ।
षण्.मासो.दक्षिणा.आदित्यः.षड्.उदन्न्.एति.सूर्य.इति ।
षड्ड्.ह्य्.एष.मासान्.उदन्न्.एति । (सोम: गवामयन)
षड्.दक्षिणा ।
अथ.एताम्.अग्नि.चित्यायाम्.पञ्च.हविषम्.दीक्षणीयाम्.इष्टिम्.एके.तन्वते । (सोम: गवामयन)
पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै ।
अथ.एताम्.आतिथ्याम्.पञ्च.हविषम्.एव.इष्टिम्.एके.तन्वते ।
पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (सोम: गवामयन)
अथ.एता.बह्व्.अग्नीर्.अन्वाह ।
बहून्.ह्य्.अग्नीन्.प्रणयन्ति ।
तस्माद्.बह्व्.अग्नीर्.अन्वाह । (सोम: गवामयन)
ता.वै.चतस्रो.भवन्ति ।
चतुष्टयम्.वा.इदम्.सर्वम् ।
अस्य.एव.सर्वस्य.आप्त्यै ।
त्रिः.प्रथमया.त्रिर्.उत्तमया.अष्टौ.सम्पद्यन्ते । (सोम: गवामयन)
अष्ट.अक्षरा.गायत्री ।
गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः ।
स्वेन.एव.तच्.छन्दसा.अग्नीन्.प्रणयन्ति । (सोम: गवामयन)
ता.वा.उपांशु.भवन्ति ।
रेतः.सिक्तिर्.वा.अग्नि.चित्या ।
उपांशु.वै.रेतः.सिच्यते । (सोम: गवामयन)
अभिरूपा.भवन्ति ।
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।
अथ.एनम्.चिन्वन्ति.यावद्.अहम्.कामयन्ते । (सोम: गवामयन)
अथ.एनम्.संचितम्.सामभिः.परिष्टुवन्ति । (सोम: गवामयन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0