भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 19.1

19.1.1

ते.वै.दीक्षिष्यमाणा.अग्नीन्त्.सम्निवपन्ते ।

19.1.2

एकधा.एव.तद्.बलम्.वीर्यम्.यजमाना.आत्मन्.दधते । (सोम: गवामयन)

19.1.3

अथ.एताम्.सम्निवपनीयाम्.इष्टिम्.तन्वते । (सोम: गवामयन)

19.1.4

ते.अग्नये.ब्रह्मण्वते.अष्टा.कपालम्.पुरोडाशम्.निर्वपन्ति ।

19.1.5

अग्नये.क्षत्रवत.एकादश.कपालम् । (सोम: गवामयन)

19.1.6

अग्नये.क्षत्र.भूते.द्वादश.कपालम् ।

19.1.7

ब्रह्म.क्षत्रे.एव.तद्.यजमानाः.समारोहन्ति ।

19.1.8

ताभ्याम्.एव.एतत्.स्वस्ति.संवत्सरम्.तरन्ति । (सोम: गवामयन)

19.1.9

त.एतेन.प्राजापत्येन.पशुना.यजन्ते ।

19.1.10

प्रजापति.प्रसूताः.स्वस्ति.इमम्.संवत्सरम्.समश्नवामहा.इति । (सोम: गवामयन)

19.1.11

तम्.ह.एके.वायव्यम्.कुर्वन्ति ।

19.1.12

एतद्.वै.प्रजापतेः.प्रत्यक्षम्.रूपम्.यद्.वायुरि.इति । (सोम: गवामयन)

19.1.13

अग्नय.उ.ह.एके.कामाय.कुर्वन्ति ।

19.1.14

अग्निर्.वै.कामो.देवानाम्.ईश्वरः ।

19.1.15

सर्वेषाम्.एव.देवानाम्.प्रीत्यै ।

19.1.14

तस्य.ह.एके.वैश्वानरीयम्.पशु.पुरोडाशम्.कुर्वन्ति । (सोम: गवामयन)

19.1.15

सर्वेषाम्.एव.देवानाम्.प्रीत्यै ।

19.1.16

तस्य.ह.एके.वैश्वानरीयम्.पशु.पुरोडाशम्.कुर्वन्ति ।

19.1.17

असौ.वै.वैश्वानरो.यो.असौ.तपति । (सोम: गवामयन)

19.1.18

एतम्.एव.तत्.प्रीणन्ति ।

19.1.19

अथ.या.बहूनाम्.सम्निवपनीय.उखा.सम्भरणीया.सा.एकस्य.दीक्षिष्यमाणस्य.भवति । (सोम: गवामयन)

19.1.20

ते.पुरस्ताद्.एव.दीक्षा.प्रसवान्.कल्पयन्ते ।

19.1.21

तैषस्य.अमावास्याया.एक.अह.उपरिष्टाद्.दीक्षेरन् ।

19.1.22

माघस्य.वा.इत्य्.आहुः । (सोम: गवामयन)

19.1.23

तद्.उभयम्.व्युदिताम् ।

19.1.24

तैषस्य.त्वा.इव.उदिततरम्.इव ।

19.1.25

त.एतम्.त्रयोदशम्.अधिचरम्.मासम्.आप्नुवन्ति । (सोम: गवामयन)

19.1.26

एतावान्.वै.संवत्सरो.यद्.एष.त्रयोदशो.मासः ।

19.1.27

तद्.अत्र.एव.सर्वः.संवत्सर.आप्तो.भवति । (सोम: गवामयन)

19.1.28

स.वै.माघस्य.अमावास्यायाम्.उपवसत्य्.उदन्न्.आवर्त्स्यन् ।

19.1.29

उप.इमे.वसन्ति । (सोम: गवामयन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc