कौषीतकिब्राह्मण · अध्याय 18.9
अथ.यद्य्.अष्टापदी.स्यात्.कथम्.स्याद्.इति ।
गर्भस्य.त्वचो.वपा.रूपम्.फाली.करणान्.गर्भम्.इति.शामित्रे.श्रपयित्वा.इतरस्य.वषट्.कारेषु.शामित्र.एव.जुहुयुः । (सोम: अवभृथ)
रक्षांसि.ह.वा.एतद्.यज्ञम्.गच्छन्ति.यद्.अत्र.एतादृग्.भवति ।
तानि.तेन.अपहन्ति । (सोम: अवभृथ)
तद्.अरक्षो.हतम् ।
एवम्.नु.यदि.पशुर्.अनूबन्ध्या.भवति ।
यद्य्.उ.वै.पयस्या । (सोम: अवभृथ)
अथ.यदि.गो.पशुर्.भवति ।
गो.संस्तवौ.वै.मित्रावरुणौ ।
तस्माद्.गो.पशुर्.भवति । (सोम: अवभृथ)
अथ.यत्.त्रिष्टुभो.याज्या.भवन्ति ।
बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: अवभृथ)
युवम्.वस्त्राणि.पीवसा.वसाथे.इति.वपायै.याज्या ।
पीवसा.इत्.तद्.वपायै.मेदसो.रूपम् । (सोम: अवभृथ)
यद्.बंहिष्ठम्.(.बन्हिष्ठम्.).न.अतिविधे.सुदानू.इति.पुरोडाशस्य ।
बंहिष्ठम्.इति.बहुल.इव.हि.पुरोडाशः । (सोम: अवभृथ)
प्र.बाहवा.सिसृतम्.जीवसे.न.इति.हविषः ।
बाहव.इति.तद्द्.हविषो.अङ्गानाम्.रूपम् । (सोम: अवभृथ)
उदन्न्.उदवसति ।
उदन्.हि.जीव.लोकः ।
उदन्न्.उदवसाय.वैष्णव्या.ऋचा.पूर्ण.आहुतिम्.जुहोति ।
यज्ञो.वै.विष्णुः । (सोम: अवभृथ)
यज्ञम्.एव.तद्.आरभते ।
पञ्च.कपालः.पुरोडाशो.भवति ।
पञ्च.पदा.पङ्क्तिः ।
पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (सोम: अवभृथ)
यद्य्.उ.वा.अष्टा.कपालः.पौर्णमासम्.एव.तन्त्रम्.भवति ।
प्रतिष्ठा.वै.पौर्णमासम्.प्रतिष्ठित्या.एव । (सोम: अवभृथ)
इदम्.त्व्.एव.प्रत्यक्षम्.पुनर्.आधेयस्य.रूपम्.यत्.पद.पङ्क्तयो.याज्या.पुरोनुवाक्याः । (अवभृथ)
तथा.एव.व्यतिषक्ताः ।
तस्याम्.संस्थितायाम्.यजमानो.अग्निहोत्रम्.जुहोति । (सोम: अवभृथ)
संस्थिते.ह्य्.अग्न्य्.आधेये.अग्निहोत्रम्.हूयते ।
तस्मात्.तस्याम्.संस्थितायाम्.यजमानो.अग्निहोत्रम्.जुहुयाद्.इति.यजमानो.अग्निहोत्रम्.जुहुयाद्.इति । (सोम: अवभृथ)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0