कौषीतकिब्राह्मण · अध्याय 18.8
त.एक.शतम्.प्रयाज.अनुयाजा.भवन्ति ।
शत.आयुर्.वै.पुरुषः.शत.वीर्यः.शत.इन्द्रियः । (सोम: अवभृथ)
उप.य.एक.शततमः.स.आत्मा ।
तद्.एतद्.अङ्गिरसाम्.अयनम् ।
स.एतेन.अयनेन.प्रतिपद्य.अङ्गिरसाम्.सलोकताम्.सायुज्यम्.आप्नोति । (सोम: अवभृथ)
अथ.याः.षड्.वा.अष्टौ.वा.वषट्.कृतयः ।
तद्.आदित्यानाम्.अयनम् । (सोम: अवभृथ)
स.एतेन.अयनेन.प्रतिपद्य.आदित्यानाम्.सलोकताम्.सायुज्यम्.आप्नोति ।
अनूबन्ध्या । (सोम: अवभृथ)
चतुर्थम्.एव.एतत्.सवनम्.यद्.अनूबन्ध्या ।
तस्माद्.अच्युता.भवति ।
चतुर्थम्.ह्य्.एव.एतत्.सवनानाम् । (सोम: अवभृथ)
सा.वै.मैत्रावरुणी.भवति ।
अग्नीषोमीयो.हि.पुरस्तात्.कृतो.भवति । (सोम: अवभृथ)
तस्मान्.मैत्रावरुणी.भवति ।
यज्ञस्य.एव.सभारतायै ।
अथ.यद्.अप्सु.वरुणम्.यजति ।
अत्र.मित्रो.हीनो.भवति । (सोम: अवभृथ)
तस्मान्.मैत्रावरुणी.भवति ।
मित्रस्य.एव.अनुलब्ध्यै ।
अथ.यदि.पशुर्.आवीतो.अनुपाकृतो.ंरियेत । (सोम: अवभृथ)
ऋत्विग्भ्यस्.तम्.कारयेत् ।
अथ.अन्यम्.तद्.रूपम्.तद्.वर्णम्.आलभेरन् ।
तम्.आप्रीतम्.पर्यग्नि.कृतम्.उदञ्चम्.नयेयुः । (सोम: अवभृथ)
तस्य.अनु.न्यायम्.इतरम्.कर्षयेयुः ।
तयोर्.नाना.वपे.उत्खिद्य.नाना.श्रपयित्वा.नाना.वदाय.समाने.वषट्.कारे.जुहुयुः । (सोम: अवभृथ)
तयोर्.नाना.एव.पशु.पुरोडाशौ.श्रपयित्वा.नाना.वदाय.समाने.वषट्.कारे.जुहुयुः । (सोम: अवभृथ)
तयोर्.नाना.एव.हविषी.श्रपयित्वा.नाना.वदाय.समाने.वषट्.कारे.जुयुहुः । (सोम: अवभृथ)
एवम्.तृतीय.गुदाव्.एवम्.जाघन्यौ ।
यदि.त्व्.अप्य्.एकया.एव.आप्रिय.आप्रीतः.स्यात् ।
तेन.एव.प्रचुरेयुर्.इति.सा.स्थितिः । (सोम: अवभृथ)
प्राणा.वै.आप्र्यः ।
प्राणान्.एव.अस्मिंस्.तद्.दधाति । (सोम: अवभृथ)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0