कौषीतकिब्राह्मण · अध्याय 18.7
तस्माद्.वारुणम्.एक.कपालम्.पुरोडाशम्.निर्वपन्ति ।
एकस्था.वै.श्रीः ।
श्रीर्.वै.वरुणः ।
श्रियाम्.एव.तद्.अन्ततः.प्रतितिष्ठन्ति । (सोम: अवभृथ)
ते.अन्तरेण.चात्वाल.उत्करा.उपनिष्क्रामन्ति ।
तद्द्.हि.यज्ञस्य.तीर्थम्.आप्नानम्.नाम ।
तद्.एतद्.ऋचा.अभ्युदितम् । (सोम: अवभृथ)
आप्नानम्.तीर्थम्.किम्.इह.प्र.वोचद्.इति ।
एतेन.वै.देवास्.तीर्थेन.यज्ञम्.प्रपद्य.सर्वान्.कामान्.आपुः ।
तथो.एव.एतद्.यजमान.एतेन.एव.तीर्थेन.यज्ञम्.प्रपद्यते ।
सर्वान्.कामान्.आप्नोति । (सोम: अवभृथ)
ते.यस्याम्.दिश्य्.आपो.भवन्ति.ताम्.दिशम्.अभ्यावृत्य.चरन्ति ।
सा.वै.प्राची.दिग्.यस्याम्.देवताः । (सोम: अवभृथ)
चतुरः.प्रयाजान्.यजत्य्.ऋते.बर्हिष्कम् । (सोम: अवभृथ)
बर्हिष्मन्तम्.उत्सृजति ।
न.ह्य्.अत्र.बर्हिः.स्तीर्यते ।
वार्त्रघ्नाव्.आज्य.भागौ.भवतः.पाप्मन.एव.वधाय । (सोम: अवभृथ)
अथो.ह.अस्य.पौर्णमासात्.तन्त्राद्.अनितम्.भवति ।
अप्सुमन्तौ.ह.एके.कुर्वन्ति । (सोम: अवभृथ)
वार्त्रघ्नौ.त्व्.एव.स्थितौ ।
अथ.यद्.अप्सु.वरुणम्.यजति ।
स्व.एव.एनम्.तद्.आयतने.प्रीणाति । (सोम: अवभृथ)
अथ.यद्.अग्नीवरुणौ.यजति ।
अत्र.अग्निः.सर्वेषु.हविह्षु.भागी.भवति । (सोम: अवभृथ)
द्वाव्.अनुयाजौ.यजत्य्.ऋते.बर्हिष्कम् ।
बर्हिष्मन्तम्.उत्सृजति ।
प्रजा.वै.बर्हिः ।
न.इत्.प्रजाम्.अप्सु.प्रवृणजानि.इति । (सोम: अवभृथ)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0