कौषीतकिब्राह्मण · अध्याय 18.6
अथ.प्राणान्त्.सम्मृशन्ते ।
तद्.यद्.एव.अत्र.प्राणानाम्.क्रूरी.कृतम्.यद्.विलिष्टम्.तद्.एव.एतद्.आप्याययन्ति.तद्.भिषज्यन्ति । (सोम: अअश्विन.शस्त्र)
भक्ष.परिधीन्.कुर्वते ।
मानुषेण.एव.तद्.भक्षेण.दैवम्.भक्षम्.अन्तर्.दधते । (सोम: अअश्विन.शस्त्र)
अवभृथः ।
अमुम्.एव.एतत्.सवनैर्.ईप्सन्ति.यो.असौ.तपति ।
उद्यन्तम्.प्रातः.सवनेन । (सोम: अवभृथ)
मध्ये.सन्तम्.माध्यंदिनेन.सवनेन ।
अस्तम्.यन्तम्.तृतीय.सवनेन ।
स.वा.एषो.अपः.प्रविश्य.वरुणो.भवति । (सोम: अवभृथ)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0