कौषीतकिब्राह्मण · अध्याय 18.5
अथ.हारि.योजनेन.चरन्ति ।
हरी.एव.तत्.प्रीणन्ति ।
अत्र.देवाः.स.अश्वाः.प्रीता.भवन्ति ।
त्रिष्टुभम्.हारि.योजनस्य.पुरोनुवाक्याम्.अनूच्य.जगत्या.यजति ।
बलम्.वै.वीर्यम्.त्रिष्टुप् । (सोम: अअश्विन.शस्त्र)
पशवो.जगती ।
बल.एव.तद्.वीर्ये.अन्ततः.पशुषु.च.प्रतितिष्ठति । (सोम: अअश्विन.शस्त्र)
मद्वती.याज्या.मद्वद्द्.हि.तृतीय.सवनम् ।
अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: अअश्विन.शस्त्र)
आहुतीनाम्.प्रतिष्ठित्यै ।
तासाम्.भूयिष्ठा.धानानाम्.आददीत । (सोम: अअश्विन.शस्त्र)
पशवो.वै.धानाः ।
भूमानम्.एव.तत्.पशूनाम्.आत्मन्.धत्ते ।
अथ.यद्.ऋचम्.जपन्ति.स्वस्त्ययनम्.एव.तत्.कुर्वते ।
ता.आहवनीयस्य.भस्म.अन्ते.निवपन्ति । (सोम: अअश्विन.शस्त्र)
योनिर्.वै.पशूनाम्.आहवनीयः ।
स्व.एव.एनांस्.तद्.गोष्ठे.अनपक्रमे.दधति ।
अथ.शाकलान्.जुह्वति । (सोम: अअश्विन.शस्त्र)
तद्.यथा.अहिर्.जीर्णायै.त्वचो.निर्मुच्येत ।
इषीका.वा.मुञ्जात् । (सोम: अअश्विन.शस्त्र)
एवम्.एव.एते.सर्वस्मात्.पाप्मनः.सम्प्रमुच्यन्ते ।
अथ.सव्यावृतो.अप्सु.सोमान्.उपपरायन्ति ।
तान्.इह.अन्तर्.वेद्य्.आसादयन्ति । (सोम: अअश्विन.शस्त्र)
तद्द्.हि.सोमस्य.आयतनम् ।
व्यपदधति.दर्भ.प्ञ्जूलानि ।
यदा.वा.आपश्.च.औषधयश्.च.संगच्छन्ते । (सोम: अअश्विन.शस्त्र)
अथ.कृत्स्नः.सोमः ।
ता.वैष्णव्या.ऋचा.निनयन्ति ।
यज्ञो.वै.विष्णुः ।
यज्ञ.एव.एनांस्.तद्.अन्ततः.प्रतिष्ठापयन्ति । (सोम: अअश्विन.शस्त्र)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0