भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 18.4

18.4.1

अथ.अतः.परिधानस्य.एव.मीमांसा ।

18.4.2

यद्.आदित्यो.रराट्याम्.अतिसर्पेत् ।

18.4.3

यदा.एनम्.स्वयम्.होता.निर्जानीयात् ।

18.4.4

यद्.आस्य.लोहितम्.आवीयात् ।

18.4.5

यद्.एव.एनम्.सर्वे.रश्मयः.प्रत्युप्येरन् । (सोम: अअश्विन.शस्त्र)

18.4.6

स.कालः.परिधानस्य ।

18.4.7

एतस्मिन्.ह.वा.एष.काले.अपहत.पाप्मा.विविक्त.पाप्मा.भवति ।

18.4.8

अपहते.पाप्मानम्.विविच्यते.पाप्मना.य.एतस्मिन्.काले.परिदधाति । (सोम: अअश्विन.शस्त्र)

18.4.9

अथ.यद्य्.अभ्रम्.स्यात् ।

18.4.10

एतद्.वा.अस्य.तद्.रूपम्.येन.प्रजा.बिभर्ति । (सोम: अअश्विन.शस्त्र)

18.4.11

इदम्.एकम्.यद्.अयम्.प्राणो.अध्यात्मम् ।

18.4.12

अतिरोहितो.मद्.इत्य्.एव.तम्.मन्यमानः.परिदध्यात् । (सोम: अअश्विन.शस्त्र)

18.4.13

विभ्राज.आहुतिम्.जुहुयाद्.अनिर्ज्ञायमान.आदित्ये ।

18.4.14

यो.अनुपयुक्तः.स्यात् ।

18.4.15

आविर्.एभ्यो.भवति ।

18.4.16

द्वाभ्याम्.यजेत् । (सोम: अअश्विन.शस्त्र)

18.4.17

द्वाभ्याम्.ह्य्.आश्विनम्.इत्य्.आख्यायते ।

18.4.18

अनवानम्.गायत्रीम्.उक्त्वा.विराजो.अर्धर्चे.अवान्.इति । (सोम: अअश्विन.शस्त्र)

18.4.19

श्रीर्.विराड्.अन्न.अद्यम् ।

18.4.20

श्रियाम्.तद्.विराज्य्.अन्न.अद्ये.प्रतितिष्ठति । (सोम: अअश्विन.शस्त्र)

18.4.21

उत्तरेण.विराजो.अर्धर्चेन.वषट्.करोति ।

18.4.22

स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । (सोम: अअश्विन.शस्त्र)

18.4.23

विराजा.एव.यजेद्.इति.ह.स्म.आह.कौषीतकिः ।

18.4.24

त्रयस्.त्रिंशद्.अक्षरा.वै.विराट् ।

18.4.25

त्रयस्.त्रिंशद्.देवताः ।

18.4.26

अक्षर.भाजो.देवताः.करोति । (सोम: अअश्विन.शस्त्र)

18.4.27

अश्विना.वायुना.युवम्.सुदक्ष.इति.त्व्.एव.स्थिता.आश्विनी.त्रिष्टुप्.तिरो.अह्न्यवती । (सोम: अअश्विन.शस्त्र)

18.4.28

तिरो.अह्न्या.हि.सोमा.भवन्ति ।

18.4.29

अथो.बलम्.वै.वीर्यम्.त्रिष्टुप् । (सोम: अअश्विन.शस्त्र)

18.4.30

बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति ।

18.4.31

अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: अअश्विन.शस्त्र)

18.4.32

आहुतीनाम्.प्रतिष्ठित्यै ।

18.4.33

संसन्नेषु.छन्दोगेषु.प्रवृत.होमीये.आहुती.जुहोति ।

18.4.34

महत्.शस्त्रम्.वाक्.च.मनश्.च.प्रीते.उद्यच्छातम्.इति । (सोम: अअश्विन.शस्त्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc