भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 18.3

18.3.1

प्रो.त्व्.एव.आश्विनस्य.विभूतिर्.इति.दिश्यते ।

18.3.2

एष.आग्नेयः.क्रतुः ।

18.3.3

आग्नेयाद्.एव.ऋतोर्.न.निश्च्यवेत । (सोम: अअश्विन.शस्त्र)

18.3.4

अथ.यद्य्.आग्नेयम्.क्रतुम्.पुरा.कालात्.समतीयात् ।

18.3.5

आश्विनम्.अनु.यत्.किंच.द्विदेवत्यम्.ऋक्षु.तद्.अनुवर्तयेत् । (सोम: अअश्विन.शस्त्र)

18.3.6

सौर्ये.क्रतौ.पावमानीर्.यथाच्.छन्दसम् ।

18.3.7

गायत्रीर्.गायत्रे.त्रिष्टुभस्.त्रैष्टुभे.जगतीर्.जागते । (सोम: अअश्विन.शस्त्र)

18.3.8

सर्वम्.सूर्य.न्यङ्गम्.सौर्यस्य.आयतने ।

18.3.9

सर्वान्.ऐन्द्रान्.प्रगाथान्.प्रगाथस्य.आयतने । (सोम: अअश्विन.शस्त्र)

18.3.10

सर्वम्.द्यावा.पृथिवीयम्.द्यावा.पृथिवीयस्य.आयतने ।

18.3.11

सर्वा.द्विपदा.द्विपदाया.आयतने । (सोम: अअश्विन.शस्त्र)

18.3.12

सर्वम्.बार्हस्पत्यम्.पुरस्तात्.परिधानीयायै ।

18.3.13

एतद्.वै.किंचिद्.इव.ऋचाम्.न.प्रदिश्यते ।

18.3.14

अथ.वै.चक्रीवद्.आश्विनम् । (सोम: अअश्विन.शस्त्र)

18.3.15

आलम्बधे.चक्रे.अकूध्रीच्यो.अक्षः । (सोम: अअश्विन.शस्त्र)

18.3.16

आ.वाम्.रथो.अश्विना.श्येनपत्वा.इति.स.उद्धिः ।

18.3.17

अथ.चत्वार्य्.आगस्त्यानि.युक्तानि । (सोम: अअश्विन.शस्त्र)

18.3.18

स.एष.देव.रथः ।

18.3.19

स.एतेन.देव.रथेन.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते ।

18.3.20

ससुपर्णम्.स्यात् ।

18.3.21

वयो.वै.सुपर्णः ।

18.3.22

तद्.यथा.पक्षि.वयो.भूत्वा.एवम्.तत्.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते ।

18.3.23

द्विर्.एव.आश्विनाय.आह्वयेते.प्रतिपदे.च.एव.परिधानीयायै.च । (सोम: अअश्विन.शस्त्र)

18.3.24

तद्.यथा.प्रतिघातेन.अनिवेष्ट्यमानो.धावयेद्.एवम्.तत् । (सोम: अअश्विन.शस्त्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc