भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 18.2

18.2.1

आग्नेयम्.क्रतुम्.शंसति ।

18.2.2

तद्.इमंल्.लोकम्.आप्नोति ।

18.2.3

उषस्यम्.शंसति । (सोम: अअश्विन.शस्त्र)

18.2.4

तद्.अन्तरिक्ष.लोकम्.आप्नोति ।

18.2.5

आश्विनम्.शंसति ।

18.2.6

तद्.अमुंल्.लोकम्.आप्नोति । (सोम: अअश्विन.शस्त्र)

18.2.7

सौर्यम्.क्रतुम्.शंसति ।

18.2.8

अस्ति.वै.चतुर्थो.देव.लोक.आपः ।

18.2.9

तम्.एव.अस्य.तेन.आप्नोति ।

18.2.10

प्रगाथम्.शंसति । (सोम: अअश्विन.शस्त्र)

18.2.11

पशवो.वै.प्रगाथ ।

18.2.12

पशूनाम्.एव.आप्त्यै ।

18.2.13

अथो.प्राण.अपानौ.वै.बार्हतः.प्रगाथः । (सोम: अअश्विन.शस्त्र)

18.2.16

द्यावा.पृथिवीयम्.शंसति ।

18.2.17

प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव ।

18.2.18

द्विपदाम्.शंसति ।

18.2.19

प्रतिष्ठानीयम्.वै.छन्दो.द्विपदा.प्रतिष्हित्या.एव । (सोम: अअश्विन.शस्त्र)

18.2.20

बार्हस्पत्यया.परिदधाति ।

18.2.21

ब्रह्म.वै.बृहस्पतिः ।

18.2.22

ब्रह्मण्य्.एव.तद्.अन्ततः.प्रतितिष्ठति । (सोम: अअश्विन.शस्त्र)

18.2.23

अथ.एषा.सम्पद्.भवति ।

18.2.24

त्रीणि.गायत्री.शतानि.ते.द्वे.बृहती.शते । (सोम: अअश्विन.शस्त्र)

18.2.25

सप्ततिम्.अनुष्टुभः.सप्ततिम्.पङ्क्तयश्.चत्वारिंशत्.शतम्.बृहतीनाम् । (सोम: अअश्विन.शस्त्र)

18.2.26

त्रयाणाम्.त्रिष्टुप्.शतानाम्.गायत्री.शतम्.उद्धृत्य.तानि.त्रीणि.बृहती.शतानि । (सोम: अअश्विन.शस्त्र)

18.2.27

तच्.च.गायत्री.शतम्.जगती.शतम्.च.ते.द्वे.बृहती.शते ।

18.2.28

पञ्चाशत्.त्रिष्टुभः.पञ्चाशद्.उष्णिहः.शतम्.बृहत्यः.सम्पद्यन्ते । (सोम: अअश्विन.शस्त्र)

18.2.29

अथ.याः.सप्त.पञ्चाशतम्.बृहत्यो.अत्र.एव.ताः.सम्पन्नात्ः ।

18.2.30

अथ.ये.द्वापञ्चाश्यौ.त्रिष्टुभौ.द्विपदा.च.तास्.तिरो.बृहत्यः.सम्पद्यन्ते । (सोम: अअश्विन.शस्त्र)

18.2.31

तन्.नानाच्.छन्दस्यानाम्.सहस्रम्.सत्.सहस्रम्.बृहत्यः.सम्पद्यन्ते ।

18.2.32

न.सहस्रम्.अतिशंसेन्.न.अर्वाक्.सहस्राद्.इत्य्.एषा.ह.एव.स्थितिः । (सोम: अअश्विन.शस्त्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc