भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 18.1

18.1.1

अतिरिक्त.सोमो.व.एष.यद्.आश्विनम् ।

18.1.2

यद्.वै.यज्ञस्य.अतिरिच्यते ।

18.1.3

भ्रातृव्यस्.तेन.यजमानस्य.प्रत्युद्यमी.भवति । (सोम: अअश्विन.शस्त्र)

18.1.4

अथ.यत्.परस्ताद्.आश्विनौ.यजति ।

18.1.5

अश्विनौ.वै.देवानाम्.भिषजौ । (सोम: अअश्विन.शस्त्र)

18.1.6

भैषज्यम्.एव.तत्.कुरुते ।

18.1.7

अथ.यत्र.ह.तत्.सविता.सूर्याम्.प्रायच्छत्.सोमाय.राज्ञे ।

18.1.8

यदि.वा.प्रजापतेः । (सोम: अअश्विन.शस्त्र)

18.1.9

तत्.सहस्रम्.अन्वाकरोद्.दुहित्र.ऊह्यमानायै ।

18.1.10

तद्.आसाम्.देवतानाम्.आसीत् ।

18.1.11

ता.अब्रुवन्न्.आजिम्.आयाम.अस्मिन्त्.सहस्र.इति ।

18.1.12

ता.आजिम्.आयन् ।

18.1.13

तद्.अश्विना.उदजयताम्.रासभेन ।

18.1.14

तस्माद्.बह्व्यो.देवताः.शस्यन्ते ।

18.1.15

अथ.आश्विनम्.इत्य्.आख्यायते ।

18.1.16

तत.उ.ह.एतद्.उत.रासभो.न.सर्वम्.इव.जवम्.धावति ।

18.1.17

सुतम्.मया.इति.हतम्.मन्यमानः.सहस्रम्.शंसेत् ।

18.1.18

सहस्रम्.ह्य्.उदजयताम् ।

18.1.19

तद्.आहुर्.यद्.बृहत्या.आयतनानि.पृष्ठानि.भवन्त्य्.अथ.कस्मात्.त्रिष्टुभा.प्रतिपद्यत.इति ।

18.1.20

त्रिः.शस्ता.एषा.तिस्रश्.च.बृहत्यः.सम्पद्यन्त.एका.च.गायत्री ।

18.1.21

इदम्.उ.ह.संधे.रूपम्.यत्.तिस्रो.बृहत्यः ।

18.1.22

पथम.रूपम्.गायत्री ।

18.1.23

अथ.यद्.बृहतीम्.अभिसम्पादयति ।

18.1.24

बृहती.ह्य्.अभिवृतम्.सम्पद्यते ।

18.1.25

अथ.यद्.बार्हतीनाम्.प्रतिपदाम्.प्रथमम्.प्रथमम्.प्रगाथम्.पुनर्.आदायम्.ककुप्.कारम्.शंसति ।

18.1.26

पुनर्.आदायम्.वै.सामगाः.स्तुवते ।

18.1.27

तस्य.एव.एतद्.रूपम्.क्रियते ।

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc