भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 17.7

17.7.1

गायत्राण्य्.उक्थ.मुखनै.शंसन्ति ।

17.7.2

तेजो.ब्रह्म.वर्चसम्.गायत्री ।

17.7.3

तेज.एव.तद्.ब्रह्म.वर्चसम्.यजमाने.दधति । (सोम: सोदशिन् & अतिरत्र)

17.7.4

गायत्रीः.शस्त्वा.जगतीः.शंसन्ति ।

17.7.5

व्याह्वयन्ते.गायत्रीश्.च.जगतीश्.च.अन्तरे.अ। (सोम: सोदशिन् & अतिरत्र)

17.7.6

छन्दांस्य्.एव.एतन्.नाना.वीर्याणि.कुर्वन्ति ।

17.7.7

जगतीः.शस्त्वा.त्रिष्टुब्भिः.परिदधति । (सोम: सोदशिन् & अतिरत्र)

17.7.8

बलम्.वै.वीर्यम्.त्रिष्टुप् ।

17.7.9

पशवो.जगती ।

17.7.10

बल.एव.तद्.वीर्ये.अन्ततः.पशुषु.च.प्रतितिष्ठन्ति । (सोम: सोदशिन् & अतिरत्र)

17.7.11

अन्धस्वत्यो.मद्वत्यः.पीतवत्यस्.त्रिष्टुभो.याज्याः.समृद्धस्.त्रिलक्षणाः ।

17.7.12

एतद्.वै.रात्रे.रूपम् । (सोम: सोदशिन् & अतिरत्र)

17.7.13

जागृयू.रात्रिम् ।

17.7.14

ज्योतिर्.वै.जागरितम् ।

17.7.15

तमः.पाप्मा.रात्रिः । (सोम: सोदशिन् & अतिरत्र)

17.7.16

तेन.तज्.ज्योतिषा.तमः.पाप्मानम्.तरन्ति ।

17.7.17

यावद्.उ.ह.वै.न.वा.स्तूयते.न.वा.शस्यते । (सोम: सोदशिन् & अतिरत्र)

17.7.18

तावद्.ईश्वरा.यदि.न.असुर.रक्षसान्य्.अन्ववपातोः ।

17.7.19

तस्माद्.आहवनीयम्.समीद्ध्वम्.आग्नीध्रियम्.गार्हपत्यम्.धिष्ण्यान्त्.समुज्ज्वलयत.इति.भाषेरन् । (सोम: सोदशिन् & अतिरत्र)

17.7.20

ज्वलयेयुः.प्रकाशम्.इव.एव.स्यात् ।

17.7.21

आलेभन्तः.शयीरन् ।

17.7.22

तान्.ह.तच्.चेष्टन्ति.न्व्.आ.इति । (सोम: सोदशिन् & अतिरत्र)

17.7.23

पाप्मा.न.अपधृष्णोति ।

17.7.24

ते.पाप्मानम्.अपघ्नते.ते.पाप्मानम्.अपघ्नते । (सोम: सोदशिन् & अतिरत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc