कौषीतकिब्राह्मण · अध्याय 17.6
अथ.यद्.ब्रह्मा.स्तोत्रम्.अनुमन्यते ।
मन.एव.तत्.प्राणैः.संदधाति ।
अथ.यत्.प्रस्तोता.प्रस्तौति । (सोम: सोदशिन् & अतिरत्र)
अपानम्.एव.तत्.प्राणैः.संदधाति ।
अथ.यत्.प्रतिहर्ता.प्रतिहरति ।
व्यानम्.एव.तत्.प्राणैः.संदधाति । (सोम: सोदशिन् & अतिरत्र)
अथ.यद्.उद्गाता.उद्गायति ।
प्राणम्.एव.तद्.व्याने.दधाति ।
ता.वा.एताः.सर्वा.देवताः.प्राण.एव.प्रतिष्ठिताः । (सोम: सोदशिन् & अतिरत्र)
अथ.यद्द्.होता.साम्ना.शस्त्रम्.उपसंतनोति ।
वाग्.वै.होता ।
वाचम्.एव.तत्.प्रणैः.संदधाति । (सोम: सोदशिन् & अतिरत्र)
अथ.यद्द्.होत्राशंसिनः.साम.संततिम्.कुर्वन्ति ।
अङ्गान्य्.एव.तत्.प्राणैः.संदधाति । (सोम: सोदशिन् & अतिरत्र)
अथ.यद्.यजमानः.स्त्रोत्रम्.उपगाति ।
प्राणा.वा.उद्गातारः ।
प्राणान्.एव.तद्.आत्मन्.धत्ते । (सोम: सोदशिन् & अतिरत्र)
तस्मान्.न.एनम्.बहिर्.वेद्यभ्यस्.तम्.इयात् ।
न.अभ्युदियान्.न.अभ्याश्रावयेत् । (सोम: सोदशिन् & अतिरत्र)
न.स्तोत्रम्.उपाकुर्वन्ति ।
न.अधिष्ण्ये.प्रतपेत् ।
न.इत्.प्राणेभ्य.आत्मानम्.अपादधानि.इति ।
अथ.यत्.प्रथमेषु.पर्यायेषु.प्रथमेषु.पदेषु.निनर्तयन्ति । (सोम: सोदशिन् & अतिरत्र)
प्रथम.रात्राद्.एव.तद्.असुरान्.निर्घ्नन्ति ।
अथ.यन्.मध्यमेषु.पर्यायेषु.मध्यमेषु.पदेषु.निनर्तयन्ति । (सोदशिन् & अतिरत्र)
मध्य.रात्राद्.एव.तद्.असुरान्.निर्घ्नन्ति ।
अथ.यद्.उत्तमेषु.पर्यायेषु.उत्तमेषु.पदेषु.निनर्तयन्ति । (सोम: सोदशिन् & अतिरत्र)
उत्तम.रात्राद्.एव.तद्.असुरान्.निर्घ्नन्ति ।
तद्.यथा.अभ्यागारम्.अभिनिनर्तम्.पुनः.पुनः.पाप्मनम्.निर्हण्यात् । (सोम: सोदशिन् & अतिरत्र)
एवम्.एव.एतत्.स्तोत्रिय.अनुरूपैर्.अहोरात्राभ्याम्.असुरान्.निर्घ्नन्ति ।
यथा.अस्तुतंव्.अनुशस्तम्.भवति.इति । (सोम: सोदशिन् & अतिरत्र)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0