कौषीतकिब्राह्मण · अध्याय 17.5
गायत्रान्त्.स्तोत्रिय.अनुरूपान्.शंसन्ति ।
ज्योतिर्.वै.गायत्री ।
तमः.पाप्मा.रात्रिः । (सोम: सोदशिन् & अतिरत्र)
तेन.तज्.ज्योतिषा.तमः.पाप्मानम्.तरन्ति ।
पुनर्.आदायम्.शंसन्ति । (सोम: सोदशिन् & अतिरत्र)
एवम्.हि.सामगाः.स्तुवते ।
यथा.स्तुतम्.व्.अनुशस्तम्.भवति.इति ।
तद्.आहुर्.अतः.कस्माद्.उत्तमात्.प्रतीहाराद्.ऊर्ध्वम्.आहूय.साम्ना.शस्त्रम्.उपसंतन्वन्ति.इति । (सोम: सोदशिन् & अतिरत्र)
पुरुषो.वै.यज्ञः ।
तस्य.शिर.एव.हविर्.धाने.मुखम्.आहवनीय.उदरम्.सदो.अन्नम्.उक्थानि ।
बाहू.मार्जालीयश्.च.अग्नीध्रियश्.च । (सोम: सोदशिन् & अतिरत्र)
या.इमा.अन्तर्.देवतास्.ते.अन्तः.सदनम्.धिष्ण्याः ।
प्रतिष्ठा.गार्हपत्य.व्रत.श्रपणाव्.इति । (सोम: सोदशिन् & अतिरत्र)
अथ.अपरम् ।
तस्य.मन.एव.ब्रह्मा.प्राण.उद्गाता.अपानः.प्रस्तोता.व्यानः.प्रतिहर्ता.वाग्.घोता.(.होता.).चक्षुर्.अध्वर्युः.प्रजातिः.सदस्य.आत्मा.यजमानः । (सोम: सोदशिन् & अतिरत्र)
अङ्गानि.होत्राशंसिनः ।
तद्.यद्.अध्वर्युः.स्तोत्रम्.उपाकरोति ।
चक्षुर्.एव.तत्.प्राणैः.संदधाति ।
अथ.यत्.प्रस्तोता.ब्राह्मणम्.आमन्त्रयते.ब्रह्मन्त्.स्तोष्याम.इति । (सोम: सोदशिन् & अतिरत्र)
मनो.वा.अग्रणीर्.भवत्य्.एषाम्.प्राणानाम् ।
मनसा.एव.प्रसूताः.स्तोमेन.स्तुयाम.इति ।
अथो.अपानम्.एव.तन्.मनसा.संतनोति । (सोम: सोदशिन् & अतिरत्र) ण्ण्ण्
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0