भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 17.1

17.1.1

आनुष्टुभो.वा.एष.वज्रो.यत्.षोडशी ।

17.1.2

तद्.यत्.षोडशिनम्.उपयन्ति ।

17.1.3

आनुष्टुभेन.एव.तद्.वज्रेण.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (सोम: सोदशिन् & अतिरत्र)

17.1.4

स.वै.हरिवान्.भवति ।

17.1.5

प्राणो.वै.हरिः ।

17.1.6

स.हि.हरति ।

17.1.7

तस्माद्द्.हरिवान्.भवति । (सोम: सोदशिन् & अतिरत्र)

17.1.8

तद्.असौ.वै.षोडशी.यो.असौ.तपति ।

17.1.9

एतम्.एव.तत्.प्रीणाति ।

17.1.10

अथो.षोडशम्.वा.एतत्.स्तोत्रम्.षोडशम्.शस्त्रम् । (सोम: सोदशिन् & अतिरत्र)

17.1.11

तस्मात्.षोडशी.इत्य्.आख्यायते ।

17.1.12

तद्.यत्.षोडशिनम्.उपयन्ति ।

17.1.13

षोडश.कलम्.वा.इदम्.सर्वम् । (सोम: सोदशिन् & अतिरत्र)

17.1.14

अस्य.एव.सर्वस्य.आप्त्यै ।

17.1.15

अथो.इन्द्रो.वै.षोडशी ।

17.1.16

तस्माद्द्.हरिवान्.भवति । (सोम: सोदशिन् & अतिरत्र)

17.1.17

हरि.स्तवो.हि.इन्द्रः ।

17.1.18

इन्द्र.जुषस्व.प्र.वहा.याहि.शूर.हरी.इह.इति । (सोम: सोदशिन् & अतिरत्र)

17.1.19

ताः.पञ्चविंशत्य्.अक्षराः ।

17.1.20

एक.एका.नवभिर्.नबव्हिर्.अक्षरैर्.उपसृष्टाः ।

17.1.21

आत्मा.वै.पञ्चविंशः ।

17.1.22

प्रजा.पशव.उपसर्गः । (सोम: सोदशिन् & अतिरत्र)

17.1.23

प्रजया.एव.तत्.पशुभिः.प्रेष्यैर्.अन्न.अद्येन.इत्य्.आत्मानम्.उपसृजते । (सोम: सोदशिन् & अतिरत्र)

17.1.24

ताश्.चतुस्त्रिंशद्.अक्षराः.सम्पद्यन्ते ।

17.1.25

स्वराड्.वै.तच्.छन्दः ।

17.1.26

यत्.किंच.चतुस्त्रिंशद्.अक्षरम्.स्वाराज्यम्.अनेन.आप्नोति । (सोम: सोदशिन् & अतिरत्र)

17.1.27

ताः.संशस्ताः.पञ्च.अन्बुष्टुभः.सम्पद्यन्ते ।

17.1.28

दश.अक्षरम्.च.पदम्.उदैति ।

17.1.29

एक.एकस्यै.द्वे.द्वे । (सोम: सोदशिन् & अतिरत्र)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc