कौषीतकिब्राह्मण · अध्याय 16.10
ऐन्द्राग्नान्य्.उक्थ्य.उक्थानि.भवन्ति ।
इन्द्राग्नी.वै.सर्वे.देवाः । (सोम: तृतीय.सवन)
वैश्वदेवम्.तृतीय.सवनम् ।
सर्वेषाम्.एव.देवानाम्.प्रीत्यै ।
आग्नेयीषु.मैत्रावरुणाय.प्रणयन्त्य्.ऐन्द्रीष्व्.इतरयोः । (सोम: तृतीय.सवन)
तेन.तान्य्.ऐन्द्राग्नानि.भवन्ति ।
चत्वारि.चत्वारि.सूक्तानि.शंसन्ति । (सोम: तृतीय.सवन)
पशवो.वा.उक्थानि ।
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै ।
तानि.द्वादश.सम्पद्यन्ते ।
द्वादश.वै.मासाः.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै । (सोम: तृतीय.सवन)
चतुर्.आहावानि.शस्त्राणि ।
पशवो.वा.उक्थानि ।
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । (सोम: तृतीय.सवन)
द्विदेवत्या.उक्थ.याज्याः ।
द्विपाद्.यजमानः ।
प्रतिष्ठित्यै ।
तानि.चत्वारि.सम्पद्यन्ते ।
पशवो.वा.उक्थानि । (सोम: तृतीय.सवन)
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.अपाप्त्यै ।
ऐन्द्रावरुणी.मैत्रावरुणस्य । (सोम: तृतीय.सवन)
ऐन्द्रावरुणम्.ह्य्.अस्य.उक्थम्.भवति ।
ऐन्द्राबार्हस्पत्या.ब्राह्मण.आच्छंसिनः । (सोम: तृतीय.सवन)
ऐन्द्रावैष्णवम्.ह्य्.अस्य.उक्थम्.भवति ।
प्रथम.उत्तमे.मद्वत्यौ ।
मद्वद्द्.हि.तृतीय.सवनम् । (सोम: तृतीय.सवन)
ता.वै.त्रिष्टुभो.भवन्ति ।
बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बलम्.एव.तद्.वीर्यम्.यजमाने.दधति । (सोम: तृतीय.सवन)
अनुवषट्.कुर्वन्त्य्.आहुतीनाम्.एव.शान्त्यै ।
आहुतीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम: तृतीय.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0